________________
द्वाविंशतिः परीषहाः
८६५ चैतत्, त एव परीषहो दंशमशकपरीषह: ५, अचेलं-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्त्राशीलादिवत्, तदेव परीषहोऽचेलपरीषहः ६ रमणं रतिः-संयमविषया घृतिः तद्विपरीता त्वरतिः, सैव परीषह: अरतिपरीषहः ७, स्त्यायते: स्तृणोतेर्वा त्रटि टित्त्वाच्च ङीपि स्त्री सैव तद्गतरागहेतुगतिविभ्रमेङ्गीताकारविलोकनेऽपि
'त्वररुधिरमांसमेदस्नाय्वस्थिशिराव्रणैः सुदुर्गन्धम् । कुचनयनजघनवदनोरुमूच्छितो मन्यते रूपम् ॥१॥'
तथा -
'निष्ठीवितं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् ।
कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजते ॥२॥' इत्यादिभावनातोऽभिधास्यमाननीतितश्च परिषह्यमाणत्वात्परीषहः स्त्रीपरीषहः ८, चरणं चर्याग्रामानुग्रामं विहरणात्मिका सैव परीषहः चर्यापरीषह: ९, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिकी स्मशानादिका स्वाध्यायादिभूमिः निषद्येतियावत् सैव परीषहो नैषेधिकीपरीषहः १०, तथा शेरतेऽस्यामिति शय्या-उपाश्रयः सैव परीषहः शय्यापरीषहः ११, आक्रोशनमाक्रोश:-असत्यभाषात्मकः स एव परीषहः आक्रोशपरीषहः १२, हननं वधः-ताडनं स एव परीषहो वधपरिषहः १३, याचनं याचा प्रार्थनेत्यर्थः, सैव परीषहो याञ्चापरीषहो १४, लभनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीषहः १५, रोगः-कुष्ठादिरूपः स परीषहो रोगपरीषहः १६, तरन्तीति तृणानि, औणादिको नक् हुस्वत्वं च, तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः १७, जल्ल इति मलः स एव परीषहो जल्लपरीषहः १८, सत्कारो वस्त्रादिभिः पूजनं पुरस्कार:अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिह सत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः अज्ञानपरीषहश्च प्राग्भाविताओँ नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञास्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं-सामान्येन मत्यादि तदभावोऽज्ञानं २०-२१, दर्शनं-सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषह: २२ ।
इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाह -