SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ८६४ द्वाविंशतिः परीषहाः (छाया - इमे खलु ते द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वा अभिभूय भिक्षाचर्यया परिव्रजन् स्पृष्टो न विहन्यात् ।) __ वृत्तिः - 'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे 'ते' इति ये त्वया पृष्टाः, शेषं पूर्ववत् । ___ तं जहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दंसमसगपरीसहे ५ अचेलपरीसहे ६ अपरीसहे ७ इत्थीपरीसहे ८ चरियापरीसहे ९ निसीहियापरीसहे १० सिज्जापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरक्कारपरीसहे १९ पण्णापरीसहे २० अन्नाणपरीसहे २१ सम्मत्तपरीसहे २२ । (छाया - तद्यथा - बुभुक्षापरीषहः । पिपासापरीषहः २ शीतपरीषहः ३ उष्णपरीषहः ४ दंशमशकपरीषहः ५ अचेलपरीषहः ६ अरतिपरीषहः ७ स्त्रीपरीषहः ८ चर्यापरीषहः ९ नैषेधिकीपरीषहः १० शय्यापरीषहः ११ आक्रोशपरीषहः १२ वधपरीषहः १३ याचनापरीषहः १४ अलाभपरीषहः १५ रोगपरीषह: १६ तृणस्पर्शपरीषहः १७ जल्लपरीषहः १८ सत्कारपुरस्कारपरीषह: १९ प्रज्ञापरीषहः २० अज्ञानपरीषहः २१ सम्यक्त्वपरीषहः २२ ।)। वृत्तिः - 'तद्यथे'त्युदाहरणोपन्यासार्थः दिगिञ्छापरीषहः १, पिपासापरीषहः २, शीतपरीषहः ३, उष्णपरीषहः ४, दंशमशकपरीषहः ५, अचेलपरीषहः ६, अरतिपरीषहः ७, स्त्रीपरीषहः ८, चर्यापरीषहः ९, नैषेधिकीपरीषहः १०, शय्यापरीषहः ११, आक्रोशपरीषहः १२, वधपरीषहः १३, याचनापरीषहः १४, अलाभपरीषहः १५, रोगपरीषहः १६, तृणस्पर्शपरीषहः १७, जल्लपरीषहः १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः २०, अज्ञानपरीषहः २१, दर्शनपरीषहः २२ । इह च 'दिगिछत्ति देशीवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीतिसर्वप्रकारं सह्यत इति परीषहः दिगिञ्छापरीषहः, एवं पातुमिच्छा पिपासा सैव परीषहः पिपासापरीषह: २, 'श्यैङ्गतावि' त्यस्य गत्यर्थत्वात्कर्तरि क्तः, ततो 'द्रवमूर्तिस्पर्शयोः श्यः' (पा०६-१-२४) इति सम्प्रसारणे स्पर्शवाचित्वाच्च 'श्योऽस्पर्शे' (पा०८-२-७) इति नत्वाभावे शीतं-शिशिरः स्पर्शस्तदेव परीषहः शीतपरीषहः ३, 'उष दाह' इत्यस्यौणादिकनक्प्रत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव परीषहः उष्णपरीषहः ४, दशन्तीति दंशाः पचादित्वादच्, मारयितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः, यूकाद्युपलक्षणं
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy