SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ षड्विशतितमी षट्विशिका अधुना षड्विशतितमी षट्त्रिशिकामाह - मूलम् - बावीसपरीसहहियासणेण, चाएण चउदसण्हं च । अभितरगंथाणं, छत्तीसगुणो गुरू जयउ ॥२७॥ छाया - द्वाविंशतिपरीषहाधिसहनेन, त्यागेन चतुर्दशानाञ्च । __ आभ्यन्तरग्रन्थानां, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२७॥ प्रेमीया वृत्तिः - द्वाविंशतिपरीषहाधिसहनेन - द्वाविंशतः परीषहाणामधिसहनेन, चतुर्दशानां - चतुर्दशसङ्ख्यानां, चः समुच्चये, आभ्यन्तरग्रन्थानां - आभ्यन्तराणां ग्रन्थानां, त्यागेन - परिहारेण, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः । व्यासार्थस्त्वयम् - 'मार्गाच्यवनार्थं निर्जरार्थञ्च परि-सामस्त्येन सह्यन्त इति परीषहाः' (६८५ तम वृत्तवृत्तिः) इति परीषहाणां व्याख्या कृता प्रवचनसारोद्धारवृत्तौ। तेच परीषहा द्वाविंशतिः । तद्यथा - १ क्षुत्परीषहः, २ पिपासापरीषहः, ३ शीतपरीषहः, ४ उष्णपरीषहः, ५ दंशमशकपरीषहः, ६ नाग्न्यपरीषहः, ७ अरतिपरीषहः, ८ स्त्रीपरीषहः, ९ चर्यापरीषहः, १० निषद्यापरीषहः, ११ शय्यापरीषहः, १२ आक्रोशपरीषहः, १३ वधपरीषहः, १४ याचनापरीषहः, १५ अलाभपरीषहः, १६ रोगपरीषहः, १७ तृणस्पर्शपरीषहः, १८ मलपरीषहः, १९ सत्कारपुरस्कारपरीषहः, २० प्रज्ञापरीषहः, २१ अज्ञानपरीषहः, २२ दर्शनपरीषहश्च । यदुक्तं उत्तराध्ययनसूत्रद्वितीयाध्ययनतद्वृत्त्योः ‘इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy