________________
८५५
शिक्षाशीलस्य पञ्चदश स्थानानि
'अह पण्णरसहि ठाणेहिं, सुविणीएत्ति वुच्चई।
नीआवित्ती अचवले, अमाई अकुऊहले ॥१०॥ (छाया- अथ पञ्चदशभिः स्थानैः, सुविनीत इति उच्यते ।
नीचवर्ती अचपलः, अमायी अकुतूहलः ॥१०॥) वृत्तिः - अथ पञ्चदशभिः स्थानैः सुष्ठ शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीआवित्ती'त्ति नीचमनुद्धतं यथा स्यादेवं वर्तत इत्येवंशीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं -
'नीअं सिज्जं गई ठाणं, नीयं च आसणाणि अ ।
नीअं च पाए वंदिज्जा, नीअं कुज्जा य अंजलि ॥१॥' (छाया- नीचां शय्यां गतिं स्थानं, नीचानि च आसनानि च ।
नीचं च पादौ वन्देत, नीचं कुर्याच्च अञ्जलिम् ॥१॥) तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाच्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलन्नेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चक: ३। अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥१०॥
अप्पं चाहिक्खिवइ, पबंधं च न कुव्वई।
मित्तिज्जमाणो भयइ, सुअं लद्धं न मज्जइ ॥११॥ (छाया- अल्पं चाधिक्षिपति, प्रबन्धं च न करोति ।
मित्रीयमाणः भजते, श्रुतं लब्ध्वा न माद्यति ॥११॥) वृत्तिः - अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धञ्च कोपाविच्छेदरूपं न करोति ६ । मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो न स्यात् ७ । श्रुतं लब्ध्वा न