________________
८५६
शिक्षाशीलस्य पञ्चदश स्थानानि माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८ ॥११॥
न य पावपरिक्खेवी, न य मित्तेसु कुप्पई ।
अपिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥ (छाया- न च पापपरिक्षेपी, न च मित्रेषु कुप्यति ।
__ अप्रियस्यापि मित्रस्य, रहसि कल्याणं भाषते ॥१२॥) वृत्तिः - न च पापपरिक्षेपी, पूर्वोक्तरूपः ९ । न च कथञ्चित्सापराधेभ्योऽपि मित्रेभ्यः कुप्यति १० । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च -
'एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः ॥१॥' इति ॥१२॥ कलहडमरवज्जए, बुद्धे अभिजाइगे।
हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥१३॥ (छाया- कलहडमरवर्जकः, बुद्धो अभिजातिगः ।
हीमान् प्रतिसंलीनः, सुविनीत इति उच्यते ॥१३॥) वृत्तिः - कलहश्च वाचिको विग्रहः, डमरञ्च प्राणिघातादिजं तद्वर्जकः कलहडमरवर्जकः १२ । बुद्धो बुद्धिमानेतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिर्वहणादित्यभिजातिगः १३ । ह्रीमान् लज्जावान्, स हि कलुषाशयत्वेऽप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरुपाद्येऽन्यत्र वा स्थितो न हि कार्यं विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥१३॥'
गुरुः शिक्षाशीलस्यैतानि पञ्चदशस्थानानि स्वीकृत्य नित्यं पालयति । इत्थं षट्त्रिंशद्गुणगणमण्डितो गुरुर्जगति शोभताम् ॥२६॥
इति पञ्चविंशतितमी षट्रिशिका सम्पूर्णतामगमत् ।