________________
८५४
शिक्षाशीलस्य पञ्चदश स्थानानि
दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः २० । आकुट्ट्या शीतोदके व्याघारितहस्तमात्रेण ॥९॥
दर्व्या भाजनेन च दीयमानं भक्तपानं गृहीत्वा । भुङ्क्ते शबल एष एकविंशो भवति ज्ञातव्यः ॥ १० ॥
अत्र हस्तकर्म्म स्वयं कुर्व्वन् परेण वा कारयन् शबलो, मैथुनं च दिव्यादित्रिविधमतिक्रमव्यतिक्रमातिचारेषु सालम्बनं सेवमानः शबलोऽनाचारोऽनालम्बनो विराधक एव । अतिक्रमादयस्तु तदध्यवसायतदर्थप्रवृत्तितद्ग्रहणतत्परिभोगस्वरूपाः । रात्रिभोजनं तु दिया गिण्हइ दिया भुंजइ इत्यादिभङ्गेषु ४ अइक्कमाइ ४ भुञ्जते सबले, आलम्बणे पुण जयणाए सन्निहिमाईसु य पडिसेवए चेव ।
(छाया- दिवा गृह्णाति दिवा भुङ्क्ते इत्यादिभङ्गेषु ४ अतिक्रमादि ४ भुञ्जानः शबलः, आलम्बने पुनर्यतनया सन्निध्यादिषु च प्रतिसेवते एव ।)
गणात्
एवमन्यत्रापि द्रष्टव्यम् । ‘असई पच्चक्खियत्ति' असकृत्प्रत्याख्याय भुञ्जान: शबलो, गणसङ्क्रमे शबलोऽन्यत्र ज्ञानाद्यर्थात् । दगलेपो नाभिप्रमाणोदकोत्तरणं, यत उक्तं
'जङ्घद्धा सङ्घट्टो नाभी लेवो परेण लेवुवरि'
(छाया - जङ्घार्द्धा सङ्घट्टः नाभिः लेपः परेण लेपोपरि ।)
इत्यादि 'माइट्ठाणाई' पच्छायणाईणि 'आउट्टत्ति' उपेत्य 'ससिणिद्धा' सोदका सरजस्का शिला लेष्टु च 'कालोवास 'त्ति घुणक्षतं, सहाण्डकैः प्राणिभिश्च यत्तत्तथा 'सीउदगवाघारिए' गलन्तेणन्ति भणियं होइ । परिस्पष्टार्थं । व्यासार्थस्तु दशादिग्रन्थान्तरादवसेय इति ।'
गुरुरेतान्शबलांस्त्यजति ।
शिक्षां ग्रहणासेवनारूपां पूर्वोक्तस्वरूपां ग्रहीतुं शीलं स्वभावोऽस्येति शिक्षाशीलः सुविनीत इत्यर्थः । तस्य पञ्चदश स्थानानि कारणरूपाणि । तद्यथा १ नीचवर्ती, २ अचपलः, ३ अमायी, ४ अकुतूहल:, ५ अधिक्षेपं न करोति, ६ प्रबन्धं न करोति, ७ मित्रीयमाणो भजते, ८ श्रुतं लब्ध्वा न माद्यति, ९ न पापपरिक्षेपी, १० मित्रेभ्यो न कुप्यति, ११ अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, १२ कलहडमरवर्जितः, १३ अभिजातिगः, १४ ड्रीमान्, १५ प्रतिसंलीनश्च । यदाह - उत्तराध्ययनसूत्रे तद्वृत्तौ च
-