________________
पञ्चविंशतितमी षट्विशिका अथ पञ्चविंशतितमी षट्त्रिंशिकामाहमूलम् - इगवीससबलचाया, सिक्खासीलस्स पनरठाणाणं ।
अंगीकरणेण सया, छत्तीसगुणो गुरू जयउ ॥२६॥ छाया - एकविंशतिशबलत्यागात्, शिक्षाशीलस्य पञ्चदशस्थानानाम् ।
अङ्गीकरणेन सदा, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२६॥ प्रेमीया वृत्तिः - एकविंशतिशबलत्यागात् - एकविंशतिसङ्ख्यानां शबलानां परिहारात्, तथा शिक्षाशीलस्य - सुविनीतस्य, पञ्चदशस्थानानां - पञ्चदशसङ्ख्यानां स्थानानां, सदा - सर्वकालं, अङ्गीकरणेन - स्वीकरणेन, एवं षट्त्रिंशद्गुणो गुरुर्जयत्विति पदार्थः ।
रहस्यार्थस्त्वयम् - शबलाः - शबलचारित्रनिमित्तभूताः क्रियाविशेषाः उक्तञ्च दशाश्रुतस्कन्धनिर्युक्तौ तच्चूर्णौ च
'अवराहमि पयणुए जेण उ मूलं न वच्चई साहू।
सबलिति तं चरित्तं तम्हा सबलेत्ति णं बिंति ॥१३॥ (छाया- अपराधे प्रतनुके येन तु मूलं न व्रजति साधुः ।
शबलयति स चारित्रं तस्मात् शबलमिति तं ब्रुवन्ति ॥१३॥) चूर्णी - तणुओ अवराहो दुब्भासितादि । सुमहल्लावराधेसु मलिण एव । अहवा दसविहे पायच्छित्ते आलोयणादि जाव छेदो ताव सबलो, मूलादिसु मलिण एव चरित्रपटः, के के ते अवराहपदा जेहिं भावसबलो भवति, ते इमे आचारमधिकृत्योपदिश्यन्ते ॥१३॥'
(छाया - तनुको अपराधो दुर्भाषितादिः । सुमहापराधेषु मलिन एव । अथवा दशविधे