SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ८५० एकविंशतिः शबलाः प्रायश्चित्ते आलोचनादि यावत् छेदस्तावत् शबलः । मूलादिषु मलिन एव चारित्रपटः । कानि कानि तानि अपराधपदानि यैर्भावशबलो भवति । ते इमे आचारमधिकृत्योपदिश्यन्ते ॥१३||) ___ ते शबला एकविंशतिसङ्ख्याः । तद्यथा - १ हस्तकर्म, २ मैथुनं, ३ रात्रिभोजनं, ४ आधाकर्म, ५ शय्यातरपिण्डः, ६ औदेशिकक्रीताभ्याहृतादि, ७ अभीक्ष्णं प्रत्याख्याय भोजनं, ८ षण्मासानामन्तर्गणाद्गणे सङ्क्रमणं, ९ अन्तर्मासस्य त्रय उदकलेपाः, १० अन्तर्मासस्य त्रीणि मायास्थानानि, ११ राजपिण्डः, १२ प्राणातिपातः, १३ मृषावादः, १४ अदत्तादानं, १५ अनन्तर्हितायां पृथिव्यां स्थानादि, १६ सस्निग्धसरजस्कपृथिव्यां सचित्तशिलालेष्ट्वोः कोलावासदारुणि वा स्थानादि, १७ सप्राणे सबीजादौ स्थानादि, १८ मूलकन्दादिभोजनं, १९ संवत्सरमध्ये दशोदकलेपाः, २० संवत्सरमध्ये दश मायास्थानानि, २१ शीतोदकव्याप्तहस्तेन भोजनञ्च । यदवाचि समवायाङ्गसूत्रे तद्वत्तौ च - "एक्कवीसं सबला पण्णत्ता, तंजहा-हत्थकम्मं करेमाणे सबले १ मेहुणं पडिसेवमाणे सबले २ राइभोअणं भुंजमाणे सबले ३ आहाकम्मं भुंजमाणे सबले ४ सागारियं पिंडं भुंजमाणे सबले ५ उद्देसियं कीयं आहट्ट दिज्जमाणं भुंजमाणे सबले ६ अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबले ६ अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले ८ अंतो मासस्स तओ दगलेवे करेमाणे सबले ९ अंतो मासस्स तओ माईठाणे सेवमाणे सबले १० रायपिंडं भुंजमाणे सबले ११ आउट्टिआए पाणाइवायं करेमाणे सबले १२ आउट्टिआए मुसावायं वदमाणे सबले १३ आउट्टिआए अदिण्णादाणं गिण्हमाणे सबले १४ आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले १५ एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंसि वा दारुए ठाणं वा सिज्जं वा निसीहियं वा चेतेमाणे सबले १६ जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिने पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिज्जं वा निसीहियं वा चेतेमाणे सबले १७ आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं वा हरियभोयणं वा भुंजमाणे सबले १८ अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले १९ अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले २० अभिक्खणं २ सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले २१ ।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy