________________
११३८
अधुना चरमश्लोकेनैतत्कुलकमुपसंहरति
मूलम् - सिरिवयरसेणसुहगुरु- सीसेणं विरइयं कुलगमेयं । पढिऊणमसढभावा, भव्वा पावंतु कल्लाणं ॥४०॥
प्रस्तुतकुलकोपसंहारः
छाया - श्रीवज्रसेनशुभगुरु-शिष्येण विरचितं कुलकमेतत् । पठित्वाऽशठभावा, भव्याः प्राप्नुवन्तु कल्याणम् ॥४०॥
प्रेमीया वृत्ति: - श्रीवज्रसेनशुभगुरुशिष्येण - श्रीवज्रसेनाऽख्यस्य शुभगुरोः शिष्येण विरचितं - गुम्फितं, एतत् प्रस्तुतं, कुलकं - षट्त्रिंशत्षट्त्रिंशिकामयं, पठित्वा - अधीत्य, अशठभावाः ऋजुस्वभावाः, भव्याः - मुक्तिगमनार्हा जीवाः, कल्याणं - निःश्रेयसं प्राप्नुवन्तु - लभन्तामिति सङ्क्षेपार्थः ।
विस्तरार्थस्त्वयम् - अनेन श्लोकेन ग्रन्थकृता प्रकृतं कुलकमुपसंहृतम् ।
अस्मिन्श्लोके ग्रन्थकृता स्वगुरोर्नाम प्रकटितम् । तेन ग्रन्थकृद्धृदये वर्तमानं गुरुबहुमानं व्यज्यते । स स्वकृतकार्येष्वपि गुरुमेवाऽग्रे करोति ।
अस्मिन्श्लोके ग्रन्थकृता स्वनाम नोक्तम् । तेन ज्ञायते स नामस्पृहाविमुक्तो - ऽभवदिति ।
अस्मिन्श्लोके ग्रन्थकारेण स्वगुरुशिष्यरूपेणैव स्वपरिचयो दत्तः, न तु स्वनाम्ना | तेन ज्ञायते तेन स्वस्याऽस्तित्वं स्वगुरौ विलीनीकृतमिति ।
ग्रन्थकारः कथयति-इदं कुलकं सरलभावेन पठितव्यं, न तु मायया । अयं भावःइदं कुलकं पठित्वा स्वहृदये गुरुबहुमानमाविर्भावनीयं, न त्वस्य पाठमात्र एव करणीयो न वा जनोपदेशार्थमेवास्य पाठः करणीयः । अथवेदं कुलकं पठित्वा हृदये ऋजुता - ssविर्भावनीया ।
प्रान्ते ग्रन्थकारो भव्यजीवेभ्य आशीर्वचनं ददाति इदं कुलकं पठित्वा सरलभावा भव्या मुक्तिमवाप्नुवन्त्विति । सरलस्यैव हि मुक्तिर्भवति । यदुक्तमुत्तराध्ययनसूत्रे -
-
'सोही उज्जयभूयस्स, धम्मो सुद्धस्स चिट्ठइ ।
निव्वाणं परमं जाइ, घयसित्तिव्व 'पावए ॥३/१२॥'