________________
प्रस्तुतकुलकोपसंहारः
११३९ (छाया- शोधिः ऋजुकभूतस्य, धर्मः शुद्धस्य तिष्ठति ।
निर्वाणं परमं याति, घृतसिक्त इव पावकः ॥३/१२॥) इत्थं गुरुगुणषट्त्रिंशत्पट्चिशिकाख्यमिदं कुलकं समाप्तम् ।
अस्य कुलकस्य पठनेन गुरोर्माहात्म्यं ज्ञात्वा सर्वाभिसारेण गुरोर्भक्तिः कर्त्तव्या, हृदयेऽद्वितीयो गुरुबहुमानभावो धर्तव्यः गुरोश्चाशातना सर्वथा वर्जनीया । गुरुभक्तिबहुमानवन्तो गौतम-चण्डरुद्राचार्यशिष्य-मृगावत्यादिवच्छीघ्रं निर्वाणं प्रयान्ति । यदुक्तं पञ्चसूत्रे -
'आयओ गुरुबहुमाणो, अवंझकारणत्तेण । अओ परमगुरुसंजोगो । तओ सिद्धी असंसयं ।'
(छाया- आयतो गुरुबहुमानः, अवन्ध्यकारणत्वेन । अतः परमगुरुसंयोगः । ततः सिद्धिरसंशयम् ।).. ___गुर्वाशातनाकारिणो गोशालकजमाल्यादिवत्संसारमटन्ति । उक्तञ्च दशवैकालिकसूत्रे -
'आयरियपाया पुण अप्पसन्ना, अबोही आसायण नत्थि मुक्खो। तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ॥९/१/१०॥' (छाया- आचार्यपादाः पुनरप्रसन्नाः, अबोधिराशातना नास्ति मोक्षः ।
तस्मादनाबाधसुखाभिकाङ्क्षी, गुरुप्रसादाभिमुखो रमेत ॥९/१/१०॥) गुरुबहुमानो मोक्षस्याऽवन्ध्यं कारणम् । गुरुबहुमानो मोक्षस्य साधकतमं कारणम् । गुरुबहुमानो मोक्षस्याऽनन्यथासिद्धं कारणं । अन्येषु कारणेषु सत्स्वपि गुरुबहुमाने सत्येव मुक्तिर्भवति गुरुबहुमानेऽसति मुक्तिर्न भवति । गुरुबहुमाने सत्यन्येषु कारणेषु सत्स्वसत्सु वा मुक्तिर्भवति । इत्थं सिद्धिसिद्ध्यर्थं गुरुबहुमानोऽतीवावश्यकः । गुरुबहानमाहात्म्यज्ञानार्थं रत्नसिंहसूरिविरचितश्रीधर्माचार्यबहुमानकुलकमद्विहिततद्वृत्ती विलोकनीये ।
सवृत्तिकमेतत्कुलकमधीत्य सर्वे गुरोर्माहात्म्यं ज्ञात्वा निजहृदि गुरुबहुमानं प्रतिष्ठाप्य शीघ्रं परमपदं प्राप्नुवन्त्वित्यभिलषामि ॥४०॥