SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारेण प्रस्तुतं शास्त्रं कथं विरचितम् ? यदि ग्रन्थकारः सर्वगुरुगुणानां यथार्थप्रतिपादनेऽसमर्थस्तर्हि तेनेदं गुरुगुणषट्त्रिशत्षत्रिशिकाख्यं शास्त्रं कथं विरचितमित्यारेकां समादधाति - - मूलम् - तहवि हु जहासुआओ, गुरुगुणसंगहमयाउ भत्तीए । इय छत्तीसं छत्तीसियाउ, भणियाउ इह कुलए ॥३९॥ तथापि खलु यथाश्रुतात्, गुरुगुणसङ्ग्रहमया भक्त्या । इति षट्त्रिंशत् षट्त्रिशिका, भणिता इह कुलके ॥३९॥ प्रेमीया वृत्तिः - तथापि - यद्यपि सर्वगुरुगुणानां शक्रेणाऽपि अप्रतिपाद्यत्वात् ममाऽपि तत्र सामर्थ्यं नास्ति तथापि, खलुशब्दो वाक्यालङ्कारे, इह - अस्मिन्, कुलके गुरुगुणषट्शत्षत्रिशिकाख्ये, यथाश्रुतात् - श्रुतानुसारेण, भक्त्या प्रीत्या, गुरुबहुमानेनेत्यर्थः, इति - एवं, गुरुगुणसङ्ग्रहमयाः - गुरुगुणानां सङ्ग्रहरूपाः, षट्त्रिंशत् - षट्त्रिंशत्सङ्ख्याः, षट्त्रिशिकाः षट्त्रिशद्गाथासमूहात्मिकाः, भणिताः प्रोक्ताः । मयेति गम्यम् । इति समासार्थः । ११३५ छाया - - व्यासार्थस्त्वयम् - ग्रन्थकारो वक्ति यद्यपि सर्वगुरुगुणयथार्थप्रतिपादनेऽहमसमर्थस्तथापि गुरुगुणसङ्ग्रहरूपा: षट्त्रिंशत् षट्त्रिशिका मयाऽत्र कुलके वर्णितास्तत्र द्वे कारणे स्तः - (१) मयैताः षट्त्रिशिका न स्वमनिषिकया विकल्प्य कथिताः परन्तु श्रुतानुसारेण । यथा श्रुते मयैताः पठितास्तथैता अत्र प्रतिपादिताः । अत्र मम किञ्चिदपि पाण्डित्यं नास्ति । श्रुतादुद्धृत्य मयैता अत्र निबद्धाः । (२) मयैताः षट्त्रिशिका गुरुभक्तिभावेन विरचिताः। यथा स्वयं गमनाऽसमर्थः पङ्गुर्यष्टिसाहाय्येनेप्सितं स्थानमासादयति तथा स्वयं गुरुगुणप्रतिपादनाऽसमर्थोऽहं गुरुबहुमानसाहाय्येनैताः षट्त्रिशिका विरचितवान् । गुरुभक्तिरेव बलान्मामेतच्छास्त्रविरचनार्थं प्रेरितवती एतच्छास्त्रनिर्विघ्नसमाप्तिञ्च प्रापितवती । यदुक्तं भक्तामर स्तोत्रे -
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy