SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारेण सर्वगुरुगुणप्रतिपादनासामर्थ्यप्रदर्शनम् ११३३ नैतावन्मात्रा एव गुरुगुणाः, परन्त्वनन्ताः । ग्रन्थकृता स्वशक्त्यनुसारेण स्तोका गुरुगुणा वर्णिताः । सर्वेषां गुरुगुणानां प्रतिपादने स्वस्य सामर्थ्यरहितत्वमाविर्भावयितुं स आह - मूलम् - जइवि हु सूरिवराणं, सम्मं गुणकित्तणं करेउं जे । सक्कोवि नेव सक्कइ, कोऽहं पुण गाढमूढमई ॥३८॥ छाया - यद्यपि खलु सूरिवराणां, सम्यग् गुणकीर्तनं कर्तुम् । शक्रोऽपि नैव शक्नोति, कोऽहं पुनर्गाढमूढमतिः ॥३८॥ प्रेमीया वृत्तिः - यद्यपि - सम्भावने, खलुशब्दो वाक्यालङ्कारे सूरिवराणां - शोभनाचार्याणां, सम्यग् - सुष्टु, न तु यथाकथञ्चित्, गुणकीर्तनं - गुणानां कथनं, कर्तुं-विधातुं, शक्रः - सौधर्मदेवलोकाधिपतिः, अपिशब्दो गुरुगुणकीर्तनं कर्तुमहं तु नैव शक्नोमि, शक्रोऽपि नैव शक्नोतीति दर्शनार्थम्, नशब्दो निषेधे, एवशब्दो अवधारणे, शक्नोति - समर्थो भवति, गाढमूढमतिः - अत्यन्तमोहयुक्तप्रज्ञावान्, पुनः - तु अहम् - ग्रन्थकारः, कः - कथं, शक्तः स्यामित्यत्राध्याहार्यमिति शब्दार्थः। भावार्थस्त्वयम् - देवा अचिन्त्यसामर्थ्याः । तेष्वपीन्द्राणां सामर्थ्य प्रभूतम् । समभूतलादसङ्ख्येययोजनान्यूद्धर्वं गत्वा प्रथमो देवलोकः समवतिष्ठते । तस्याधिपतिः शक्रनामेन्द्रः । गुरुगुणा अनन्ताः । अचिन्त्यसामर्थ्यवान् शक्रोऽपि यदि सर्वान् गुरुगुणान्यथावस्थितान् कथयितुमसमर्थो भवति तीत्यल्पसामर्थ्यवतो मन्दप्रज्ञस्य च मम सर्वगुरुगुणानां यथार्थप्रतिपादने का वार्ता ? अहं तु सुतरां तेषां सम्यक् प्रतिपादनेऽसमर्थोऽस्मीति वदति ग्रन्थकृत् ॥३८॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy