________________
एकविधं मिथ्यात्वम्
८२३
मोचनं मरणार्थं परित्यागस्तदर्थं, चः समुच्चये । संलेखनार्थं निर्भोजनो भूयादित्यर्थः । अयमर्थः - पूर्व्वं हि दीर्घपर्यायपरिपालनं, शिष्येभ्यो वाचनादानं, शिष्यनिष्पादना च श्रेयो, अन्ते च वार्द्धके सर्वस्याप्यनुष्ठानस्य मरणाराधना सारेति तस्यां महाप्रयत्नो विधेयः । सा च संलेखना क्रमेणोपशमयुक्तेनाऽऽहारत्यागादिरूपा कार्या । अतः शरीरत्यागार्थं तत्करणे भोजनाभावः सम्भवतीति गाथार्थः ॥ ९९॥'
गुरुरेतान् पञ्चविधान्ग्रासैषणादोषान्परिहरति ।
मिथ्यात्वं-विपरीतश्रद्धानम् । तदेकविधम् । तद्यथा अदेवगुरुधर्माणां देवगुरुधर्मत्वेन देवगुरुधर्माणाञ्चाऽदेवगुरुधर्मत्वेन श्रद्धानम् । यदवाचि योगशास्त्रे तद्वृत्तौ च'विपक्षज्ञाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्त्वविपक्षं मिथ्यात्वमाह -
-
अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या ।
अधर्मे धर्म्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥२/३॥
वृत्तिः - अदेवोऽगुरुरधर्म्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्म्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षणं तद्विपर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तस्माद्धेतोः सम्यक्त्वविपर्ययरूपत्वादित्यर्थः । तथा च इदमपि सङ्गृहीतं - देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्मे अधर्म्मत्वस्य प्रतिपत्तिरिति ।
मिथ्यात्वं च पञ्चधा आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च । तत्राभिग्रहिकं पाखण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥१॥
अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्म्मा इति ॥२॥
आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेवि भवति ॥३॥
सांशयिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥४॥
अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ॥ ५ ॥ यदाह
-