________________
पञ्चविधा ग्रासैषणादोषाः तत्स्यादित्यावेदितम् । यतः कारणाभावः कारणदोषोऽत्राभिप्रेत इति गाथार्थः ॥९८॥
यैः कारणैराहारयति यतिस्तान्युक्तान्यधुना यैर्नाहारयति तान्या
अहव न जिमेज्ज रोगे, मोहुदये सयणमाइउवसग्गे । पाणिदयातवहेडं, अंते तणुमोयणत्थं च ॥ ९९ ॥
८२२
(छाया - अथवा न जिमेत् रोगे, मोहोदये स्वजनाद्युपसर्गे । प्राणिदयातपोहेतोः, अन्ते तनुमोचनार्थं च ॥९९॥)
वृत्तिः - अथवेति बलवर्णाद्यपेक्षया भोजनाऽकरणे विकल्पान्तरार्थः । न नैव जिमेदद्यात् साधुर्भोजनं कुर्यादित्यर्थः । क्वेत्याह- रोगे आकस्मिकज्वराक्षिरोगादावजीर्णादौ च । उपवासान् कुर्वतो हि प्रायो ज्वरादयस्त्रुट्यन्ते । यदुक्तं -
'बलाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरात् ॥१॥'
-
तथा मोहोदयेऽत्युत्कटकामपीडोद्भवे मैथुनविरतिरक्षणार्थं न जिमेत् । उपवासान् हि कुर्व्वतः कामः काममपक्रामति । यदुक्तं -
' विषया विनिवर्त्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्त्तते ॥ १ ॥ ' इति ।
'सयणमाइ 'त्ति मोऽलाक्षणिकस्ततः स्वजनाद्युपसर्गे । तत्रोपसर्गः स्खलीकरणम्, स चानुकूलप्रतिकूलभेदात् द्विधा । तत्र मातापितृकलत्रादिस्वजनोपसर्गोऽनुकूलः । ते हि प्रव्रज्यामोचनाद्यर्थं कदाचिदुपतिष्ठन्ते । तत उपसर्गोऽयमिति मत्वा तत्र न जिमेत् । ते उपवासान् कुर्वन्तमवलोक्य तन्निश्चयावगमान्मरणादिभीतेर्वा प्रायस्तं मुञ्चन्ति । आदिशब्दात् प्रतिकूलोपसर्गे कुपितराजादौ न जिमेदिति । तथा प्राणिदया च तपश्च ते तथा । तद्धेतोस्तन्निमित्तं । तत्र प्राणिदयाहेतोः सत्त्वरक्षणाय जलवृष्टौ, महिकापाते, सचित्तरज: पातादौ, प्रभूतश्लक्ष्णमण्डूकिकामसिकादिसत्त्वसमाकुलायामिलायां न जिमेत् किन्तु मेघवृष्ट्या - दावुपवासं करोति येन भिक्षाटनादिजाताप्यकायादिविराधना न स्यात् । तथा तपोहेतोस्तपोऽर्थमेकद्व्याद्युपवासकरणेन षण्मासान्तं यावत्तपः कुर्वतो न भोजनसम्भवः । इह उत्कृष्टतः षण्मासमेव तपो भवति न परत इति वेदितव्यम् । तथा अन्ते पर्यन्तसमये वृद्धभावे इत्यर्थः । अन्यदा हि प्रायो बुभुक्षाधिक्यादाहारत्यागे आर्त्तध्यानापत्तेरिति । तनुः शरीरं तस्या