________________
पञ्चविधा ग्रासैषणादोषाः
८२१
दोषवत्करोति द्वेषवांश्च तदेव भुञ्जानो धूमितं करोति । चशब्दौ परस्परापेक्षया समुच्चयार्थौ । इह यद्यपि पूर्व्वं काष्ठादिदह्यमानमर्द्धदग्धोल्मुकस्वभावं सधूमं स्यात्ततः सर्वथा ज्वलनरूपामङ्गारतां भजते इति सधूमाङ्गारयोरुत्पत्तिक्रमस्तथाप्यनयोर्भावरूपयोर्गुरुलघुदोषतामाश्रित्येवं निर्द्देशस्तथाहि-रागेण सर्व्वथा दग्धेन्धनसमं चारित्रं करोतीति स गुरुर्दोषो, द्वेषेण त्वर्द्धदग्धेन्धनसममिति स लघुरिति । तथा शेषेषूद्गमादिदोषेषु जगत्त्रयकदर्थकरागद्वेषस्वरूपत्वाद्गुरुतमाविमाविति ख्यापनाक्रमभणनं त्यक्त्वैतौ दोषौ विसदृशावुक्ताविति गाथार्थः
॥९७॥
उक्तमङ्गारधूमाख्यं दोषद्वयं साम्प्रतं कारणाख्यमभिधित्सुर्यन्निमित्तमाहारयति, यन्निमित्तं च नेत्येतदाह
-
(छाया
छुहवेयणवेयावच्च-संजमसुज्झाणपाणरक्खट्ठा । इरियं च विसोहेडं, भुंजइ न उ रूवरसहेऊ ॥९८ ॥
क्षुद्वेदनावैयावृत्त्य-संयमसुध्यानप्राणरक्षार्थम् । ईर्यां च विशोधयितुं, भुञ्जीत न तु रूपरसहेतुः ॥९८॥
वृत्तिः - इह क्षुद्वेदनादिपदानां कृतद्वन्द्वानां रक्षार्थमिति पदेन प्रत्येकं सम्बन्धो भवति । ततश्च क्षुद्वेदनारक्षार्थं बुभुक्षालक्षणपीडापगमाय । बुभुक्षासदृशी हि नास्त्यन्या पीडा, अतस्तद्विनाशाय भुञ्जीतेति सर्वत्र योग: साधुराहारमिति शेषः । तथा वैयावृत्त्यमाचार्यादीनां भक्तपानादिना प्रतिचरणरूपम् । तद्धि बुभुक्षितेन कर्तुं न पार्यते, अतः तद्रक्षार्थं तस्य हानिनिवारणार्थम् । तथा संयमः प्रत्युपेक्षणाप्रमार्ज्जनादिकः साधुव्यापारस्तं बुभुक्षितः कर्त्तुं न शक्नोत्यतस्तत्पालनार्थम् । तथा शोभनं ध्यानं सुध्यानं सूत्रार्थानुचिन्तनादिलक्षणं धर्मध्यानं, तदपि बुभुक्षितस्य परिक्षीयते । यतो बुभुक्षितः पूर्व्वाधीतश्रुतपरावर्त्तनेऽर्थचिन्तनिकायां चासमर्थः स्यादतस्तद्रक्षार्थं सुध्यानहानिनिवारणार्थमित्यर्थः । तथा प्राणरक्षार्थं, तत्र प्राणा इन्द्रियादयो दश तेषां रक्षार्थं तत्संधारणाय, बुभुक्षितस्य ह्यायुर्बलादि हीयते । तथेर्यां च विशोधयितुमीर्यासमितिपालनाय, बुभुक्षितो हीर्यासमितिं ध्यामललोचनानि (नत्वेन) विशोधयितुं न शक्नोति । चः समुच्चये । एतैः षड्भिः कारणैस्साधुराहारं भुञ्जीताश्नीयात् । न तु न पुनर्भुञ्जीत रूपरसहेतुः । तत्र रूपं शरीरस्य विशिष्टवर्णाद्याकृतिः 'रस शब्दे' इति वचनाद्रसः शब्दस्तयोर्हेतुर्निमित्तं शरीरोपचितत्वकण्ठमाधुर्यापादनायेत्यर्थः । आहारविषयो वा रसो मधुरादिकस्तन्निमित्तं स्वादुरसोपेतमिदं वर्त्तते, अतोऽवश्यं भोक्तव्यमिति गार्त्स्न्येन न भुञ्जीतेत्यर्थः । अनेन रूपाद्यर्थमाहारमाहारयन् धर्म्मप्रयोजनाभावात् कारणाख्यदोषदुष्टं
I