________________
पञ्चविधा ग्रासैषणादोषाः देतदनुसारतः प्रकामादिभोजनत्रयेऽप्येतेऽन्ये च ब्रह्मचर्यविराधनादयो दोषा वाच्याः । तस्माद्गुणकारित्वात् प्रमाणोपेतमेव भोक्तव्यम् । किं च ये नरा अपथ्यपरिहारिणः, द्वात्रिंशत्कवलभोजिनो वा द्वात्रिंशतः स्तोकतरभोजिनो वा स्युस्तेऽपरवैद्यचिकित्स्या न स्युः किन्तु ते स्वत एवोक्ताहारनिषेवणादात्मनो वैद्यकल्पा इति प्रमाणयुक्तभोजने विशेषगुणस्ततो ज्ञानादिवृद्धिरिति गाथार्थः ॥ ९६ ॥
८२०
उक्तः प्रमाणदोषः, साम्प्रतमङ्गारधूमाख्यं दोषद्वयं युगपद्व्याख्यातुमाह
अंगारसधूमोवम-चरणिधणकरणभावओ जमिह । रत्तो दुट्ठो भुंजइ, तं अंगारं च धूमं च ॥९७॥
(छाया - अङ्गारसधूमोपम - चरणेन्धनकरणभावतो यदिह । रक्तो द्विष्टो भुङ्क्ते, तद् अङ्गारश्च धूमश्च ॥९७॥
वृत्तिः - इह काष्ठादिकमिन्धनम्, अग्निदग्धं निर्धूमं ज्वलदग्निरूपमङ्गार इत्यभिधीयते । तथा सह धूमेन सधूमं, तदेवेन्धनमङ्गारभावमप्राप्तं दाहक्रियामनुभवद्यावदर्द्धदग्धं तावद्भूमसद्भावात्सधूममुच्यते । ततोऽङ्गारश्च सधूमं च अङ्गारसधूमं द्रव्येन्धनं तेन उपमा औपम्यं सादृश्यं यस्य तच्चरणेन्धनं च । तत्र चरणं चारित्रं तदेवेन्धनं बालनं दाह्यत्वाच्चरणेन्धनं, तस्य करणं विधानं, तस्य भावः सद्भावस्तस्माच्चारित्रेन्धनस्याङ्गारसधूमसदृशकरणतयेत्यर्थः । अयमर्थो यथाहि द्रव्येन्धने, दाह्यं दाहकस्तत्साध्यं कार्यं चेति त्रितयं भवति तथा भावेन्धनेऽपि दाह्यं दाहकस्तज्जन्यं कार्यं च वाच्यं, तत्र द्रव्येन्धने काष्ठादिबालनं दाह्यं दाहकोऽग्निस्तत्साध्यं च धू (मा)यमानताऽङ्गारतालक्षणं, भावेन्धने चारित्राख्यं दाह्यं, रागद्वेषपरिणामश्च साधोरशनादिगोचरोऽग्निर्दाहकः, तत्साध्यं च कार्यं धूमायमानतारूपं रूक्षोऽयमाहार इत्यादिवचनोच्चारणेन तस्यैव मलिनत्वकरणं अङ्गारताकरणरूपं च । मिष्टोऽयमाहार इत्यादिवचनोच्चारणेन सर्व्वथा निर्दग्धत्वेन तस्यैवासारताकरणं मोक्षकार्यं प्रति । यथाह्यङ्गारैः काष्ठादिकार्यं न सिध्यति । तथा तेन चारित्रेण कृतदुःखमोक्षो मोक्षो न शीघ्रं लभ्यते इत्येवं च चरणेन्धनस्य द्रव्येन्धनौपम्यम् । ततश्च यत्प्रासुकमेषणीयमप्यशनादि, इह तु स्थाप्यं, रक्तो मिष्टमेतदिति तत्प्रशंसया रागवान् सन्, द्विष्टो रूक्षमेतदित्यादिदोषग्रहणतो द्वेषवान् भुङ्क्ते अभ्यवहरति तदशनादि, यथाक्रमं भवति । इह एषु ग्रासैषणादोषेषु मध्ये, अस्मिन् प्रवचने वा, किमित्याह- 'अंगारं च धूमं चे 'ति, तत्राङ्गारः पूर्वोक्तशब्दार्थश्चारित्रेन्धनदहनसमर्थो रागपरिणामो, धूमश्च पूर्वोक्तशब्दार्थश्चारित्रेन्धनस्य धूमायमानताकरणसमर्थो द्वेषपरिणामस्तद्योगादशनाद्यप्यङ्गारदोषवद्भूमदोषवच्च भवति । रागवानेषणीयमपि भुञ्जानोऽङ्गार