________________
पञ्चविधा ग्रासैषणादोषाः
८१९ प्रकामं, निकामं, प्रणीतं, अतिबहुकं, अतिबहुशः, अतिप्रमाणमतृप्यमानं वेति । तत्र त्रयस्त्रिंशदादिभिः कवलैः भोजनमेकस्मिन्नेव दिने कृतं प्रकाममित्युच्यते । तच्च केवलप्रकामत्वेनैतैरगलत्स्नेहबिन्दुभिर्जेयम् । यदि तु गलत्स्नेहबिन्दुभिः स्यात्तदा प्रकामः प्रणीतश्च दोषौ स्यातामेवं शेषदोष(षेषु)दोषसङ्करत्वमपि भावनीयं १। तथा प्रकामभोजनमेव व्यादिदिनेषु क्रियमाणं निकाममुच्यते २। उत्पाट्यमानकवलेभ्यो गलघृतादिकं भोजनं प्रणीतमुच्यते ३। एकस्मिन् दिने न्यूनोदरतारहितत्वेन परिपूर्णभोजनं बहुकमुच्यते तद्बहुकमतिक्रान्तमतिशयेन स्वप्रमाणाधिकं यदशनादिकं वारद्वयं भुङ्क्ते तदतिबहुकमिति ४। तिस्रो वारा यदशनादिकं भुङ्क्ते तदतिबहुश उच्यते ५। तिसृभ्यो वाराभ्यः परतश्चतस्रादिवारा अतिलौल्यात्तृप्तिममन्यमानः साधुर्यदशनादिकं भुङ्क्ते तदतिप्रमाणमतृप्यमानं वोच्यते ६। तदिदं प्रमाणदोषदुष्टं षड्विधमप्याहारं साधुर्न भुञ्जीत । तथा विरुद्धद्रव्याहारोऽपि देहसंयमक्षतिकारित्वेन क्लेशफल एव ज्ञेयोऽतः सोऽपि न भोक्तव्यो यथा दधितैलयोः क्षीरतैलयोर्वा संयोगः कुष्ठविकारकारी, समभागयोश्च तैलघृतयोमिलितयोः संयोगः कियताऽपि कालेन विषत्वभाजी भवेच्चेति गाथार्थः ॥१५॥ शेषं क्लेशफलमिति प्रागुक्तं ततश्च कुतः पुनः शेषं क्लेशफलमित्याह -
जेणइबहु अइबहुसो, अइप्पमाणेण भोयणं भुत्तं ।
हादेज्जव वामेज्जव, मारेज्जव तं अजीरंतं ॥१६॥ (छाया- येनाऽतिबहु अतिबहुशः, अतिप्रमाणेन भोजनं भुक्तम् ।
हदयेद्वा वमयेद्वा, मारयेद्वा तदजीर्यत् ॥९६॥) वृत्तिः - येन कारणेन ‘अतिबहु' अतिबहुकाख्यं वारद्वयमित्यर्थस्तथा 'अतिबहुसो' अतिबहुशोऽभिधं वारत्रयमित्यर्थः । अतिप्रमाणेन वारत्रयोल्लङ्घनेन करणभूतेन अतृप्यमानेन वा तृप्तिममन्यमानेन साधुना क; भोजनमशनादिकं भुक्तमभ्यवहृतम् । किं कुर्यात् इत्याह । हदयेद्वा पुरीषाधिक्यं कारयेत्, वमयेद्वा छर्दैि कारयेत्, मारयेद्वा प्राणत्यागं कारयेत् । वाशब्दाः स्वस्थाने विकल्पार्थाः । तदतिबहुकादिभोजनं कीदृशं सदित्याह-अजीर्यदपरिणमत् । इह च सूत्रकृता दोषदर्शनद्वारेणातिबहुकादित्रयस्य दर्शनेन प्रकामादिदोषत्रयमप्युपलक्षितं द्रष्टव्यम् । केवलं प्रकामादित्रयाभणनेन यदतिबहुकादित्रयस्योपादानं तदस्यात्मविराधनादिजनकत्वेनातिपरिहारताख्यापनार्थं, तत्रात्मविराधना मरणादेः, संयमविराधना तु तापनार्थं तेजस्कायादिविराधनात, प्रवचनविराधना तु औदरिका एते इत्यादि जनापवादात् । उपलक्षणत्वा