________________
८१८
पञ्चविधा ग्रासैषणादोषाः
अष्टाविंशतिः कवला महिलाया आहारमानं । नपुंसकस्य तु ते चतुर्विंशतिः स्युः । परं तस्य प्रायोऽप्रव्राजनीयत्वात् -
'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ १ ॥ '
इत्यस्यां गाथायामाहारमानं तं प्रति नोक्तम् ।
अथ कवलानां किं प्रमाणम् ? उच्यते कुक्कुट्यण्डकमात्राः कवला भवन्तीति । तत्र कुक्कुटी द्विविधा द्रव्यकुक्कुटी भावकुक्कुटी च । तत्र साधोः शरीरं द्रव्यकुक्कुटी तस्य मुखमण्डकं, तत्राऽऽविष्कृते मुखेऽक्षिकपालौष्ठभ्रूभिरविकृताभिर्यः प्रविशति तत्प्रमाणं कवलस्य । अथवा कुक्कुटी तस्य अण्डकं तत्प्रमाणः कवलो ग्राह्यः । भावकुक्कुटी पुनर्यावन्मात्रेणाहारेण भुक्तेन नातिन्यूनं नात्याध्यातं चोदरं भवति, धृतिज्ञानादिवृद्धिश्च भवति, अस्याहारस्य द्वात्रिंशो भागोऽण्डकं तत्प्रमाणं कवलस्य । तथा द्वात्रिंशत्कवलादिकं पुरुषाद्याश्रित्य कवलाहारस्यैव मानमिदम् ।
सपानस्य च तस्योदरमाश्रित्य कालापेक्षया भागतः प्रमाणं वक्तव्यम् । तत्र कालस्त्रिधा शीत उष्णः साधारणश्च । तदिह यत्र काले शीतमधिकं स शीतः, यत्र घर्मोऽधिकः स उष्णः, यत्र द्वयोः साम्यं स साधारणः कालः । तथा सर्वमपि भोजकोदरविवरं षड्भिर्भागैः कल्प्यते । ततश्च साधारणकाले भक्तपानयोरभ्यवहारे इदं प्रमाणं यथा - उदरभागत्रयं तक्रादिव्यञ्जनयुक्तेनाशनेन पूरयेत्, द्वौ च भागौ काञ्जिकपानकेनेति । षष्ठश्चांशो न्यूनो धरणीय इतश्चेतश्च वायोः सञ्चरणायान्यथा हि वातः पीडां कुर्यादिति पञ्चैव भागाः सदोपयोगिनः । तदुक्तं
'अद्धमसणस्स सर्वजणस्स कुज्जा, दवस्स दो भाए । वाउपवियारणट्ठा च्छब्भायं ऊणयं कुज्जा ॥१॥ ' इति ।
तथा शीते पानस्यैकः, भक्तस्य चत्वारो भागा इति पञ्च । उष्णे त्रयः पानस्य, भक्तस्य द्वाविि पञ्च । इह बुभुक्षावृद्ध्या भक्तभागवृद्धिः, पिपासाहान्या तु जलहानिरित्यादि भावनीयम् । तदिदमाहारप्रमाणमेतद्व्यतिरिक्ते च प्रमाणदोषोऽत एव आह- शेषं संयमादिनिर्वाहहेतोः स्वदेहानुगुणादाहारमानादन्यत् न्यूनमधिकं वा प्रकामातिबहुकादिवक्ष्यमाणदोषयुक्तं वाहार्यमाणमशनादि, किमित्याह, क्लेशः शरीरपीडा स एव फलं प्रयोजनं यस्य तत्क्लेशफलमक्षुधाऽजीर्णादिजनकतया शरीरव्यथोत्पादकमित्यर्थः । एतेन ज्ञानादिवृद्धिजनकादन्यत्प्रमाणदोषदुष्टं ज्ञेयमित्युक्तं भवति । ते च प्रमाणदोषभेदाः षड् भवन्ति । यथा