________________
पञ्चविधा ग्रासैषणादोषाः
८१७
यदा तु तत्र तथाभूतं तेनैव सह कवलतया करोति तदा द्वितीया २ । यदा तत्तथाभूतमेकं मुखे प्रक्षिप्यान्यत्तथाभूतं तदुपरि प्रक्षिपति तदा तृतीया ३ । तदिह वसतेर्बहिः द्रव्यसंयोजने बाह्या। वसतावागतेन रसनिमित्तं तस्मिन् क्रियमाण अभ्यन्तरेति स्थितम् ।
पिण्डप्रस्तावादियं पिण्डविषया दर्शिता । इतरथोपकरणं गवेषयतः साधो चोलपट्टकावाप्तौ विभूषाप्रत्ययमन्तरकल्पं याचित्वा परिभुञ्जानस्य बहिरुपकरणसंयोजना । वसतौ चागत्य परिभुञ्जानस्यान्तरुपकरणसंयोजनेत्याद्यपि द्रष्टव्यमिति । इह च रसहेतोरिति विशेषणेन कारणतः संयोजनाऽप्यनुज्ञातेत्यावेदयति, तथाहि रोगिणः साधोर्यस्य वाऽहारेऽरुचिः स्यात्तस्य, तथा प्रधानाहारोचितराजपुत्रादेस्तथा साधूचितेन संयोगरहिताहारेण नाद्यापि सम्यग्भावितस्य शैक्षकादेर्वा इयमनुज्ञाता । एतेषां हि शालनकादि विना नैवाहा इति गाथार्थः ॥९४॥
उक्ता संयोजना, अथ प्रमाणातिक्रमदोषमभिधित्सुराह ।
धिइबलसंजमजोगा, जेण ण हायंति संपइ पए वा । तं आहारपमाणं जइस्स सेसं किलेसफलं ॥९५॥
(छाया - धृतिबलसंयमयोगा, येन न हीयन्ते सम्प्रति प्रगे वा । तदाहारप्रमाणं यतेः शेषं क्लेशफलम् ॥ ९५ ॥ )
वृत्ति: - धृतिश्च चेतसः स्वास्थ्यमुपलक्षणत्वाज्ज्ञानादिवृद्धिश्च । बलं च वैयावृत्त्यादिकरणक्षमं शरीरसामर्थ्यम् । संयमयोगाश्च चारित्रसाधकाः प्रत्युपेक्षणाप्रमार्जनादयः साधुव्यापाराः, धृतिबलसंयमयोगास्ते येन यावन्मात्रेणाशनादिना उपभुक्तेन न हीयन्ते न हानिं यान्ति किन्त्वनवरतमुत्सर्पन्त एवेति तत्त्वम् । कदा न हीयन्ते इत्याह सम्प्रति भोजनादूर्ध्वं तस्मिन्नेव दिने इत्यर्थः । यद्वा प्रगे प्राप्तद्वितीये आगामिदिने इत्यर्थः । वा विकल्पे । कोऽर्थो येनोपभुक्तेन न्यूनतया अधिकतया वा तदैव श्वो वा क्षुधाऽजीर्णादिव्यथाऽसद्भावान्न संयमज्ञानादिहानिर्भवतीति । तत्किमित्याह - तावन्मात्रं संयमधृत्याद्युत्सर्पणकार आहारे, आहारस्य भक्तपानरूपस्य भोजनस्य, प्रमाणं मानं यतेः साधोरुपलक्षणत्वात्साध्व्याश्च ज्ञेयमिति शेषः ।
तच्च किल द्वात्रिंशत्कवलरूपमेकतृप्तिकारकतया एकस्मिन् दिने पुरुषं प्रति द्रष्टव्यम् । मध्यमप्रमाणमेतत् । तस्माच्च द्वात्रिंशत्कवलप्रमाणादेकेन कवलेन द्वयादिभिर्वा हीयमानं तावत् मध्यमं यावदष्टौ, अष्टौ कवलास्तु जघन्यमिति । उत्कृष्टतस्तु बहवोऽपि कवला भवन्तीति ।