________________
पञ्चविधा ग्रासैषणादोषाः प्रमितिः प्रमाणं कवलसङ्ख्यादिना आहारमात्रालक्षणं, एकारः प्रथमैकवचनार्थः । तच्चातिक्रम्यमाणं भोजनदोषो भवेत् । 'इंगाले' त्ति चारित्रेन्धनस्याङ्गाराणामिव करणमिति कारिते अन्त्यस्वरादिलोपे, पुंसि 'सज्ञायां घः' इति घे चाङ्गारश्चारित्रेन्धनदहनसमर्थो रागपरिणामः । एकारः पूर्ववत् । 'धूमे' त्ति चारित्रेन्धनस्य धूमकरणमिति कारिते, 'मंतुवंतुविना लुक् चे' ति वंतुलोपे अन्त्यस्वरादिलोपे पूर्ववद् घे च धूमश्चारित्रेन्धनस्य धूमायमानताकरणसमर्थो द्वेषपरिणामः । प्रथमैकवचनलोपः छन्दोऽर्थम् । 'कारणे'त्ति कार्यते प्राणी कार्य भोजनाख्यमनेन निमित्तेनेति कारणं निमित्तमेकार: पूर्ववत् । रूपबलाद्यर्थमशनाद्युपभोगः कारणाख्यो दोषः । चः समुच्चयार्थो लुप्तो दृश्यते । पञ्च भोजनदोषा भवन्तीति शेषः । तत्रैतेष्वाद्यं व्याख्यातुमाह ।
'पढमिति, दोषपञ्चकापेक्षया प्रथमाऽऽद्या प्रक्रमात् संयोजना भवति । कथमित्याह वसतेरुपाश्रयाद्बहिर्बहिष्टाद् भिक्षाटनं इत्यर्थो यद्वाऽन्तरे वसतेमध्ये, वा विकल्पे । रसहेतो रसोत्कर्षार्थं शोभनास्वादनिमित्तमिति यावत् । द्रव्याणां कूरादीनां लाभे संयोगो रसगृद्ध्या दध्यादीनां संयोजनं मीलनं द्रव्यसंयोगस्तस्मिन् साधुना क्रियमाणे सति प्रथमा भवतीति पूर्वेण योगः । अयमत्र भावार्थ:-द्विधा संयोजना, भावसंयोजना द्रव्यसंयोजना च । द्रव्यसंयोजना(नया) चेह प्रकृतम् । तत्र क्षीरादीनि द्रव्याणि गा_परिणामेन संयोजयन्नात्मनि यथा ज्ञानावरणादिकं कर्म संयोजयति बध्नाति, सा भावेन द्रव्यगृद्धिरूपाध्यवसायेनात्मना सह कर्मणां संयोजना मीलनं तैश्च संसारस्य, तेनैव दुःखस्येति भावसंयोजनेति ।
द्रव्यसंयोजना तु द्विधा बाह्याभ्यन्तरभेदात् । तत्र बाह्याभ्यन्तरत्वे भोजनक्रियायाः क्रमशोऽप्रत्यासन्नताऽऽसन्नते आश्रित्य द्रष्टव्ये । तत्र च रसहेतुकद्रव्यार्थं पर्यटनं १ तेषां पृथक् पात्रे ग्रहण २ मिति द्विधा बाह्या द्रव्यसंयोजना। तां च द्विधामपि वसतेर्बहिभिक्षामटन् करोति । यथा कश्चित्साधुभिक्षामटन् शाल्यादिकूरं क्षीरं वा प्राप्तवांस्तत्प्राप्तौ च रसगृद्धिनिमित्तं दधिगुडयोर्गवेषणाय पर्यटति मण्डकमुद्गशाल्यादिप्राप्तौ च सपिर्दधिस्निग्धपत्रशाकादिशालनकाद्यर्थं पर्यटतीत्येका १, द्वे वा लभ्यमाने भिन्नभिन्नपात्रकेषु स्थापयेत् साधुर्यतोऽधुनैव मीलितानि भोजनवेलायां यावद्धृतानि विरूपरसानि भविष्यन्तीति भोजनं कुर्खन् मीलयिष्यामीति विचिन्त्य क्षीरादीनि लभ्यमानानि बहिरेव पृथक् पृथक् भाजनेषु गृह्णातीति द्वितीया २ । अभ्यन्तरा पुनर्द्रव्यसंयोजना त्रिधा पात्रकविषया, कवलविषया, मुखविषया चेति त्रिविधामभ्यन्तरां वसतावायातः करोति । तत्र भोजनसमये यत्सुकुमारिकादि येन खण्डादिना सह रोचते तद्रसगृद्ध्या तेनैव सहैकस्मिन्नेव पात्रे संयोज्य स्थापयतीत्याद्या १ ।