________________
पञ्चविधा ग्रासैषणादोषाः
८१५ 'ग्रासः-भोजनं तद्विषया एषणा-शुद्धाशुद्धपर्यालोचनं ग्रासैषणा, तस्या दोषा ग्रासैषणादोषाः ।' इति व्याख्यातं प्रवचनसारोद्धारवृत्तौ ।
ते च ग्रासैषणादोषाः पञ्चविधाः । तद्यथा - १ संयोजनादोषः, २ प्रमाणातिरिक्तदोषः, ३ अङ्गारदोषः, ४ धूमदोषः ५ अकारणदोषश्च । यदुक्तं पिण्डविशुद्धौ तद्वत्तौ च -
'इय सोलस सोलस दस, उग्गमउप्पायणेसणा दोसा ।
गिहिसाहूभयपभवा, पंच गासेसणाए इमे ॥१३॥ (छाया- इति षोडश षोडश दश, उद्गमोत्पादनैषणादोषाः ।
गृहिसाधूभयप्रभवाः, पञ्च ग्रासैषणायां इमे ॥९३||) वृत्तिः - इत्येवं प्रदर्शितप्रकारेण षोडश-षोडश-दश-सङ्ख्या यथाक्रमं ये उद्गमोत्पादनैषणाविषया व्यावर्णितस्वरूपा दोषा आहारदूषणानि ते यथासङ्ख्यं गृहिसाधूभयप्रभवा भवन्तीति शेषः । अत्र षोडशाऽप्युद्गमदोषा गृहस्थादुत्पद्यन्ते । गृही प्रायेण तत्कर्तेत्यर्थः । उत्पादनादोषाः षोडशापि यतेरेव सकाशात् प्रादुर्भवन्ति, यतिरेव तान् कुरुते इत्यर्थः । उभयं गृहिसाधुलक्षणम् । तस्मात्प्रभवन्ति जायन्ते एषणादोषा गृही साधुश्च तद्विधायीत्यर्थः । तत्र शङ्कितदोषः साधुभावापरिणतदोषश्चेति द्वौ साधुप्रभवौ शेषा मेक्षितादयः पुनरष्टाववश्यं गृहस्थादेव स्युरिति । तदेवं विधिना गृहीतस्याप्याहारस्य विधिना ग्रासः कार्य इति ग्रासैषणाया अवसरोऽतस्तद्दोषप्रस्तावनार्थमाह । 'पंच'त्ति, पञ्चसङ्ख्याः पुनर्दोषाः । 'गासेसणाए'त्ति ग्रासो भोजनं तद्विषया एषणा शुद्धाशुद्धपर्यालोचनं ग्रासैषणा तस्यास्तस्यां वेमेऽनन्तरमेव वक्ष्यमाणाः संयोजनादयः स्युरिति गाथार्थः ॥९३॥ अधुना तानेव प्रस्तावितान् नामतः, आद्यस्य स्वरूपं चाह -
संजोयणा पमाणे इंगाले धूम कारणे पढमा ।
वसहि बहिन्तरे वा रसहेउं दव्वसंजोगा ॥९४॥ (छाया- संयोजना प्रमाणं अङ्गारः धूमः कारणं प्रथमा ।
वसतेः बहिरन्तरे वा रसहेतोः द्रव्यसंयोगाः ॥९४॥) वृत्तिः - संयोजनं संयोजना । गृद्ध्या रसोत्कर्षोत्पादनार्थं द्रव्याणां सुकुमारिकादीनां गुडादिद्रव्यैः सह मीलनमित्यादिरूपा सा क्रियमाणा ग्रासैषणादोषः स्यात् । 'पमाणे' त्ति,