________________
चतस्त्रो दुःखशय्याः
११०१
भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं नो सद्दहइ नो पत्तियइ नो रोएइ निग्गंथं पावयणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं उच्चावयं नियच्छ्इ विणिग्घायमावज्जइ पढमा दुहसेज्जा ।'
(छाया - चतस्रः दुःखशय्याः प्रज्ञप्ताः । तत्र खलु इयं प्रथमा दुःखशय्या मुण्ड भूत्वा अगारात् अनगारितां प्रव्रजितः निर्ग्रन्थे प्रवचने शङ्कितः काङ्क्षितः विचिकित्सितः भेदसमापन्नः कलुषसमापन्नः निर्ग्रन्थं प्रवचनं न श्रद्धत्ते न प्रत्येति न रोचयति निर्ग्रन्थं प्रवचनं अश्रद्दधान अप्रतिपद्यमानः अरोचमानः मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते । प्रथमा दुःखशय्या |)
'से' इति स कश्चिद्गुरुकर्म्मा, प्रवचने शासने, दीर्घत्वं च प्राकृतत्वादिति शङ्कित एकभावविषयसंशययुक्तः, काङ्क्षितो मतान्तरमपि साध्विति बुद्धि (मान्), विचिकित्सितः फलं प्रति शङ्कावान्, भेदसमापन्नो बुद्धेर्व्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त इति, न श्रद्धत्ते सामान्येनैवमिदमिति नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनश्चित्तमुच्चावचमसमञ्जसं निर्गच्छति याति करोतीत्यर्थः ततो विनिर्घातं धर्म्मभ्रंशं संसारं वा आपद्यते एवमसौ श्रामण्यशय्यायां दुःखमास्ते इत्येका ।
-
'अहावरा दोच्चा दुहसेज्जा से णं मुण्डे भवित्ता अगाराओ जाव पव्वइए सएणं लाभेणं नो तुस्सइ परस्स लाभं आसाएइ पीहेड़ पत्थेइ अभिलसइ परस्स लाभं आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिग्घायमावज्जइ दोच्चा दुहसेज्जा ।'
(छाया - अथापरा द्वितीया दुःखशय्या स मुण्डो भूत्वा-अगारात् यावत् प्रव्रजितः स्वकेन लाभेन न तुष्यति परस्य लाभं आशयति (आस्वादयति) स्पृहयति प्रार्थयते अभिलषति परस्य लाभमाशयन् (आस्वादयन् ) यावत् अभिलषन् मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते द्वितीया दुःखशय्या ।)
स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति, आस्वादयति वा लभते चेद्भुङ्क्त एव, स्पृहयति वाञ्छयति प्रार्थयते याचते अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः शेषमुक्तार्थमेवमप्यसौ दुःखमास्ते इति द्वितीया ।
'अहावरा तच्चा दुहसेज्जा से णं मुण्डे भवित्ता जाव पव्वइए दिव्वमाणुस्सए