________________
चतस्त्रो दुःखशय्याः
'अट्ठ' इत्यादि । गुरुरष्टप्रवचनमातृः पालयति । तासां स्वरूपमेवमुक्तं पाक्षिक
सूत्रवृत्तौ -
११००
'अष्टौ चेर्यासमित्यादिभेदादष्टसङ्ख्या एव, का इत्याह प्रवचनस्य द्वादशाङ्गस्य मातर इव तत्प्रसूतिहेतुत्वान्मातरो जनन्यः प्रवचनमातरः । तत्र सम्यगितिः प्रवृत्तिः समितिरीर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः यदाह - 'ईर्यासमितिर्नाम रथशकटयानवाहनाक्रान्तेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यमिति ।' ...तथा भाषायां भाषणे समितिर्निरवद्यभाषणतो भाषासमितिः, आह च 'भाषासमितिर्नाम हितमितासन्दिग्धभाषणम् ।'... तथा एषणायामुद्गमादिदोषवर्जनतः समितिरेषणासमितिः उक्तं च ' एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यमिति । ' ... तथा आदाने ग्रहणे भाण्डमात्राया उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमाज्जितक्रमेणेति । आदानभाण्डमात्रनिक्षेपणा-समितिः । .......तथा उच्चारप्रस्रवणखेलसिङ्घानजल्लानां पारिष्ठापनिकायां समितिः स्थण्डिल - शुद्धयादिक्रमेण सम्यक्प्रवृत्तिः उच्चारप्रस्रवणखेलसिङ्घानजल्लपारिष्ठापनिकासमितिः, तत्रोच्चारः पुरीषं प्रस्रवणं मूत्रं, खेलो निष्ठीवनं सिङ्घानो नासिकाश्लेष्मा, जल्लो मल इति । तथा मनसश्चत्तस्य, कुशलस्य प्रवर्त्तनेन अकुशलस्य निरोधनेन गोपनं गुप्तिर्मनोगुप्तिः ।... तथा वाचोऽकुशलवचनस्य निरोधेन कुशलस्य चोदीरणेन गुप्तिर्वाग्गुप्तिः ।... तथा कायस्य गोपनं कायगुप्तिः प्रयोजनाभावे करचरणाद्यवयवसंलीनता, प्रयोजनोत्पत्तौ तु स्थानादिषु सम्यक्वृत्तिरित्यर्थः ।'
-
गुरुश्चतस्रो दुःखशय्यास्त्यजति । गुरुश्चतस्रः सुखशय्याः पालयति । चतुर्विधदुःखशय्यासुखशय्यास्वरूपमेवं प्रोक्तं पाक्षिकसूत्रवृत्तौ
-
‘चतस्रश्चतुःसङ्ख्याश्चशब्दोऽभ्युच्चये, शेरते आस्विति शय्याः, दुःखदाः शय्या दुःखशय्याः ताश्च द्रव्यतोऽतथाविधखट्वरूपाः, भावतस्तु दुःस्थचित्ततया दु:श्रमणतास्वभावाः, प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थनविशेषिता मन्तव्याः ।
-
यदुक्तं स्थानाङ्गसूत्रे
'चत्तारि दुहसेज्जाओ पन्नत्ताओ । तत्थ खलु इमा पढमा दुहसेज्जा से णं मुण्डे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे संकिए कंखिए वित्तिगिच्छिए