________________
११०२
चतस्रो दुःखशय्याः कामभोगे आसाएइ जाव अभिलसइ दिव्वमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिग्यायमावज्जइ तच्चा दुहसेज्जा।'
(छाया- अथापरा तृतीया दुःखशय्या - स मुण्डो भूत्वा यावत् प्रव्रजितः दिव्यमानुष्यकान् कामभोगान् आशयति यावत् अभिलषति दिव्यमानुष्यकान् कामभोगान् आशयन् यावत् अभिलषन् मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते तृतीया दुःखशय्या ।)
कण्ठ्यै वेयम् । 'अहावरा चउत्था दुहसेज्जा से णं मुण्डे जाव पव्वइए । तस्स णं एवं भवइ जया णं अहं अगारवासं आवसामि तया णं अहं संवाहणपरिमद्दणगायब्भंङ्गगाउच्छोलणाइं से लभामि जप्पभिइ च णं अहं मुण्डे जाव पव्वइए तप्पभिई च णं अहं संवाहण जाव गाउच्छोलणाइं नो लभामि से णं संवाहणं जाव गाउच्छोलणाइं आसाएइ जाव अभिलसइ से णं संवाहण जाव गाउच्छोलणाइं आसाएमाणे जाव मणं उच्चावयं नियच्छइ विणिग्यायमावज्जइ चउत्था दुहसेज्जा।'
(छाया- अथापरा चतुर्थी दुःखशय्या - स मुण्डो यावत् प्रव्रजितः । तस्य एवं भवति यदा अहं अगारवासं आवसामि तदा अहं सम्बाधनपरिमर्दनगात्राभ्यङ्गगात्रक्षालनानि एतानि लभे । यत्प्रभृति अहं मुण्ड: यावत् प्रव्रजितः तत्प्रभृति च अहं सम्बाधन यावत् गात्रक्षालनानि न लभे । स सम्बाधन यावत् गात्रक्षालनानि आशयति यावत् अभिलषति । स सम्बाधन यावत् गात्रक्षालनानि आशयन् यावत् मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते चतुर्थी दुःखशय्या ।)
अगारवासो गृहवासः तमावसामि तत्र वर्ते सम्बाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमर्दनं तु पृष्ठादेर्मेलनमानं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात्, गात्राभ्यङ्गस्तैलादिनाङ्गम्रक्षणं गात्रक्षालनमङ्गधावनमेतानि लभे न कश्चिन्निषेधतीति शेषं कण्ठ्यमिति चतुर्थी ।
चतस्रश्चतुःसङ्ख्याः चः समुच्चये का इत्याह-सुखदाः शय्याः सुखशय्याः, एता दुःखशय्याविपरीताः प्रायः प्रागिवावगन्तव्याः ।
यदाह - 'चत्तारि य सुहसिज्जाउ पन्नत्ताउ । तत्थ खलु इमा पढमा सुहसेज्जा, से णं मुण्डे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे नो भेयसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहइ पत्तियइ