SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ १०९८ पञ्चविंशतिर्भावनाः अहास्यसत्यं, अनुविचिन्त्य भाषेत, यः क्रोधलोभभयमेव वर्जयति । स दीर्घरात्रं समुपेक्ष्य स्यात्, मुनिः खलु मृषां परिवर्जेत् सदा ॥२॥ स्वयमेव अवग्रहयाचनं, घटेत मतिमान् निशम्य सदा भिक्षुरवग्रहम् । अनुज्ञाप्य भुञ्जीत पानभोजनं, याचित्वा साधर्मिकानामवग्रहम् ॥३॥ आहारगुप्तः अविभूषितात्मा, स्त्रीयं न निध्यायति न संस्तुयात् । बुद्धः मुनिः क्षुद्रकथां न कुर्यात्, धर्मप्रेक्षी सन्दधाति ब्रह्मचर्यम् ॥४॥ यः शब्दरूपरसगन्धान् आगतान्, स्पर्शाश्च सम्प्राप्य मनोज्ञपापकान् । गृद्धिप्रद्वेषौ न कुर्यात् पण्डितः, स भवति दान्तो विरतः अकिञ्चनः ॥५॥) वृत्तिः - गाथाः पञ्च, आसां व्याख्या - ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितःसम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन्, 'उवेह भुंजेज्ज व पाणभोयणं"उवेह'त्ति अवलोक्य भुञ्जीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत्, अवलोक्य भोक्तृता द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौ-पात्रादेर्ग्रहणमोक्षौ आगमप्रतिषिद्धौ जुगुप्सतिन करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंसेत् तृतीयभावना, संयतः-साधु समाहितः सन् संयमे 'मणोवइत्ति अदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पञ्चमी भावना, गताः प्रथमव्रतभावनाः ॥१॥ द्वितीयव्रतभावनाः प्रोच्यन्ते-'अहस्ससच्चे 'त्ति अहास्यात् सत्यः हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य-पर्यालोच्य भाषेत अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत्, स इत्थम्भूतो दीर्घरात्रं-मोक्षं समुपेक्ष्य-सामीप्येन दृष्ट्वा 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत् सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयव्रतभावनाः ॥२॥ तृतीयव्रतभावनाः प्रोच्यन्ते - स्वयमेव आत्मनैव प्रभुं प्रभुसन्दिष्टं वाऽधिकृत्य अवग्रहयाञ्चायां प्रवर्तेत अनुविचिन्त्यान्यथाऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्मत्ति तत्रैव तणाद्यनुज्ञापनायां चेष्टेत् मतिमान् निशम्य-आकर्ण्य प्रतिग्रहप्रदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइ भिक्खु उग्गहं ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं गृह्णीयात् तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयव्रतभावनाः ॥३॥ चतुर्थव्रतभावनाः प्रोच्यन्ते - 'आहारगुत्ते 'त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy