SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १०९६ द्वात्रिंशद् योगसङ्ग्रहाः तोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधानं - तपः, न निश्रितमनिश्रितम् - ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः ४, "सिक्ख'त्ति प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति - ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५. 'निप्पडिकम्मय'त्ति प्रशस्तयोगसङ्ग्रहायैव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमासार्थः ॥ 'अन्नायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्येतत् सर्वत्र योज्यं ७, 'अलोहे 'त्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः ८, 'तितिक्ख'त्ति तितिक्षा कार्या, परीषहादिजय इत्यर्थः ९, 'अज्जवे 'त्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं १०, 'सुइ'त्ति शुचिना भवितव्यं, संयमवतेत्यर्थः ११, 'सम्मबिट्ठि'त्ति सम्यग्अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धिरित्यर्थः १२, 'समाही य'त्ति समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं १३, 'आचारे विणओवए'त्ति द्वारद्वयम्, आचारोपगः स्यात्, न मायां कुर्यादित्यर्थः १४, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः १५, द्वितीयगाथासमासार्थः ॥ 'धिई मई यत्ति धृतिर्मतिश्च कार्या, धृतिप्रधाना मतिरित्यर्थः १६, 'संवेग'त्ति संवेगः कार्यः १७, 'पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः १८, 'सुविहित्ति सुविधिः कार्यः १९, 'संवरे'त्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, 'अत्तदोसोवसंहारे'त्ति आत्मदोषोपसंहारः कार्यः २१, 'सव्वकामविरत्तय'त्ति सर्वकामविरक्तता भावनीया २२, इति तृतीयगाथासमासार्थः ॥ ‘पच्चक्खाणे 'त्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्धयं २३-२४, 'विउस्सग्गे'त्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्नः २५, 'अप्पमाए'त्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः २६, 'लवालवे 'त्ति कालोपलक्षणं क्षणे २ सामाचार्यनुष्ठानं कार्यं २७, 'झाणसंवरजोगे'त्ति ध्यानसंवरयोगश्च कार्यः, ध्यानमेव संवरयोगः, २८, 'उदये मारणंतिए'त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति २९ चतुर्थगाथासमासार्थः ॥ 'संगाणं च परिण'त्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन परिज्ञा कार्या ३०, 'पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्यं ३१, 'आराहणा य मरणंति'त्ति आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः ३२, एते द्वात्रिंशद् योगसङ्ग्रहा इति पञ्चमगाथासमासार्थः ॥१२७५-१२७९॥' गुरुराचरणा-सम्भाषणा-वासना-प्रवर्तना-रूपैश्चतुर्विधभावैर्युक्तो भवति । इत्थं गुरोः षट्विशद्गुणा भवन्ति ॥६३७।। _ 'लद्धीणं' इत्यादि । अस्य वृत्तस्य भावार्थ एकोनत्रिंशत्तमषट्त्रिशिकावृत्तौ विवेचितः ॥६३८॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy