________________
द्वात्रिंशद् योगसङ्ग्रहाः
१०९५ आलोयणा निरवलावे, आवईसु दढधम्मया । अणिस्सिओवहाणे य, सिक्खा णिप्पडिकम्मया ॥१२७५॥ अण्णायया अलोहे य, तितिक्खा अज्जवे सुई। सम्मदिट्ठी समाही य, आयारे विणओवए ॥१२७६॥ धिई मई य संवेगे, पणिही सुविहि संवरे। अत्तदोसोवसंहारो, सव्वकामविरत्तया ॥१२७७॥ पच्चक्खाणा विउस्सग्गे, अप्पमाए लवालवे । झाणसंवरजोगे य, उदए मारणंतिए ॥१२७८॥ संगाणं च परिण्णा, पायच्छित्तकरणे इय ।
आराहणा य मरणंते, बत्तीसं जोगसंगहा ॥१२७९॥ (छाया- आलोचना निरपलापः, आपत्सु दृढधर्मता ।
अनिश्रितोपधानं च, शिक्षा निष्प्रतिकर्मता ॥१२७५॥ अज्ञातता अलोभश्च, तितिक्षा आर्जवं शुचिः । सम्यग्दृष्टिः समाधिश्च, आचारः विनयोपगः ॥१२७६।। धृतिर्मतिश्च संवेगः, प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः, सर्वकामविरक्तता ॥१२७७॥ प्रत्याख्यानं व्युत्सर्गः, अप्रमादः लवालवः । ध्यानसंवरयोगश्च, उदये मारणान्तिके ॥१२७८।। सञ्ज्ञानां च परिज्ञा, प्रायश्चित्तकरणमिति ।
आराधना च मरणान्ते, द्वात्रिंशद् योगसङ्ग्रहाः ॥१२७९॥ वृत्तिः - आसां व्याख्या - 'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या १, “निरवलावे 'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव प्रदत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा - 'कयरे आगच्छइ दित्तरूवे' (छाया- कतर आगच्छति दीप्तरूपः ।) इत्यादि २, 'आवतीसु दढधम्मत'त्ति तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः, ३, 'अणिस्सिओवहाणे य'त्ति प्रशस्तयोगसङ्ग्रहायैवानिश्रि