SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशद् योगसङ्ग्रहाः ‘अट्ठारस' इत्यादि । अस्य वृत्तस्य विशेषार्थो वर्णित एकविंशतितमषट्त्रिशिकावृत्तौ ॥६२९॥ १०९४ ‘अट्ठारस' इत्यादि । अस्य वृत्तस्य विशेषार्थः प्रदर्शितो द्वाविंशतितमषट्त्रिशिकावृत्तौ ॥६३०॥ 'गुणवीसं' इत्यादि । अस्य वृत्तस्य भावार्थ: प्रज्ञापितस्त्रयोविंशतितमषट्त्रशिकावृत्तौ ॥६३१॥ ‘मिच्छत्तं' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितश्चतुर्विंशतितमषट्त्रिशिकावृत्तौ । तत्र पञ्चमण्डलीदोषाः पञ्चविधग्रासैषणादोषरूपाः ज्ञेयाः ॥६३२॥ ‘इगवीसं' इत्यादि । अस्य वृत्तस्य भावार्थो निदर्शितः पञ्चविंशतितमषट्त्रिशिकावृत्तौ ॥६३३॥ ‘मिच्छत्तं' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचितः षड्विंशतितमषट्त्रिशिकावृत्तौ ॥६३४॥ 'मुणिगुण' इत्यादि । अस्य वृत्तस्य भावार्थ: प्रपञ्चितोऽष्टाविंशतितमषट्त्रिंशिकावृत्तौ ॥६३५॥ 'पडिलेहण' इत्यादि । गुरुः पञ्चविंशतिविधप्रतिलेखनां सम्यक्करोति । तस्याः स्वरूपमुक्तं सप्तविंशतितमषट्त्रिशिकावृत्तौ । गुरुः षट्कायविराधनां त्यजति । षट्कायस्वरूपमुक्तं तृतीयषट्त्रिशिकावृत्तौ । गुरुः पञ्चविधवेदिकादोषविशुद्धं वन्दनं करोति । पञ्चविधवेदिकादोषाणां स्वरूपमुक्तं सप्तविंशतितमषट्त्रिंशिकावृत्तौ । इत्थं गुरोः षट्त्रिंशद्गुणा भवन्ति ॥६३६॥ ‘बत्तीस' इत्यादि । गुरुर्द्वात्रिंशद्योगसङ्ग्रहगुणैः कलितो भवति । द्वात्रिंशद्योगसङ्ग्रहाणां स्वरूपमेवं प्रज्ञापितं श्रमणप्रतिक्रमणसूत्रे आवश्कनिर्युक्तिवृत्तौ च - ‘बत्तिसाए जोगसंगहेहिं ।' (छाया - द्वात्रिंशद्भिः योगसङ्ग्रहैः ।) वृत्तिः - द्वात्रिंशद्भिर्योगसङ्ग्रहैः क्रिया पूर्ववत्, इह युज्यन्त इति योगाः - मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचना- निरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः, प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारः
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy