SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १०७७ ग्रन्थान्तरगतगुरुगुणषट्विशिकाः उदाहरणं दृष्टान्तः । हेतुरन्वयव्यतिरेकवान् । कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानाऽनाबाधप्रकर्षात्, अन्यत्र निरुपमसुखाभावान्नास्त्यत्र दृष्टान्तः, उक्तं च - 'हेऊ अणुगमवइरेगलक्खणो सज्झवत्थुपज्जाओ। आहरणं दिटुंतो कारणमुववत्तिमित्तं तु ॥१॥' [विशेष० भा० १०७७ गा०] (छाया- हेतुः अनुगमव्यतिरेकलक्षणः साध्यवस्तुपर्यायः । उदाहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥१॥) साध्यमनित्यत्वम्, तदाधारभूतं वस्तु शब्दः, तस्य पर्यायः क्रमभावी धर्मः कृतकत्वरूपः । नया:-नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरुदै ६ वम्भूता ७ ऽऽख्याः सप्त तेषु निपुणः, अनीदृशो हि वचनमात्रेण न बोधयितुमलम् ॥२९॥ अत एव ग्राहणाकुशलः परप्रत्यायनक्षमः ॥३०॥ स्वसमयपरसमयवित् ॥३१॥ गम्भीरोऽतुच्छः ॥३२॥ दीप्तिमान् सप्रतापः ॥३३॥ शिवो विशिष्टतपोलब्ध्यादिभिः क्षेमकृत् ॥३४॥ सोमोऽक्रोधनः ॥३५॥ गुणानां मूलगुणादीनां शतानि बहुत्वोपलक्षणं चैतत्तैः कलितः ॥३६॥ युक्तोऽर्हः प्रवचनसारं सिद्धान्तार्थं परिकथयितुमिति गाथाचतुष्टयार्थः ॥३६, ३७॥ ॥१५०, १५१॥' सम्बोधप्रकरणे गुरुगुणानामष्टाचत्वारिंशत् षट्विशिकाः प्रदर्शिताः । तथाहि - 'पडिरूवाई चउदस खंतिमाइयदसविहो धम्मो। बारस य भावणाओ सूरिगुणा हुंति छत्तीसं (१)॥५९६॥ पंचिंदियसंवरणो तह नवविहबंभचेरगुत्तिधरो । तह चत्तचउकसाओ अट्ठारसगुणेहिं संजुत्तो ॥५९७॥ पंचमहव्वयजुत्तो पंचविहायारपालणसमत्थो । पंचसमिइतिगुत्ति-गुत्तो छत्तीसगुणकलिओ (२) ॥५९८॥ विहिपडिवण्णचरित्तो गीयत्थो वच्छलो सुसीलो य । सेवियगुरुकुलवासो अणुयत्तिपरो गुरू भणिओ ॥५९९॥ देसकुलजाईरूवी संघयणी थिइजुओ अणासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥६००॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy