SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १०७६ ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः जिपरसो जियनि मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्नू ॥३५॥ ( १४९ ) पंचवि आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउकारणनयनिउणो गाहणाकुसलो ॥ ३६ ॥ (१५० ) ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसकलिओ जुत्तो पवयणसारं परिकहेउं ॥३७॥ (१५१ ) (छाया - देशकुलजातिरूपी संहननी धृतियुतो अनाशंसी । अविकत्थनो अमायी स्थिरपरिपाटिः गृहीतवाक्यः ||३४|| जितपर्षद् जितनिद्रो मध्यस्थो देशकालभावज्ञः । आसन्नलब्धप्रतिभो नानाविधदेशभाषाज्ञः ॥ ३५ ॥ पञ्चविधे आचारे युक्तः सूत्रार्थतदुभयविधिज्ञः । उदाहरणहेतुकारणनयनिपुणो ग्राहणाकुशलः ॥३६॥ स्वसमयपरसमयविद् गम्भीरो दीप्तिमान् शिवः सोमः । गुणशतकलितो युक्तः प्रवचनसारं परिकथयितुम् ॥३७॥) वृत्ति: - देशकुलजातिरूपाण्यतिशायीनि विद्यन्ते यस्य स तथा । तत्र देशो मध्यदेशो जन्मभूमिः ।१। कुलमिक्ष्वाक्वादि पैतृकम् |२| जातिर्मातृसमुत्था । ३ । रूपमङ्गोपाङ्गसम्पूर्णता |४| संहननी विशिष्टसंहननः, स हि वाचनादौ न श्राम्यति । ५ । धृतियुक्तः । ६ । अनाशंसी श्रोतृभ्यो न वस्त्राद्याऽऽकाङ्क्षी ७॥ अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा ।८। अमायी ।९। स्थिरा निश्चला परिपाटिः सूत्रार्थवाचना यस्य स तथा । १०। गृहीतं वाक्यं येन स तथाऽवधारणावान्, यद्वा गृहीतं वाक्यं यस्य स आदेयवचनः । ११ । जितपरिषत् | १२| जितनिद्रः ।१३। मध्यस्थः शिष्येषु समचित्तः । १४। देशः साधुभावितादिः, कालः सुभिक्षादिः, भावः क्षायोपशमिकादिस्तान् जानातीति तज्ज्ञः । स हि यथौचित्येन विहरति धर्मकथां च कुरुते ।१५-१६-१७। आसन्ना प्रश्नाऽनन्तरमेव लब्धा प्रतिभा - उत्तरदाने बुद्धिर्येन स तथा ।१८। नानाविधदेशभाषाज्ञः ||१९|| ||३४, ३५ ॥ ॥१४८, १४९ ॥ पञ्चविध आचारे ज्ञानादौ युक्तः ||२४|| सूत्रार्थतदुभयविधिज्ञः इह तदुभयपदेनैव गतार्थत्वात् सूत्रार्थपदोपादानं चतुर्भङ्ग्यर्थम् । तदुभयपदेन च तृतीयभङ्गस्य ग्राह्यतोक्ता ॥२५॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy