________________
ग्रन्थान्तरगतगुरुगुणषट्विशिकाः
१०७५
तथा
विगहा कसाय सन्ना पिंडो उवसग्ग झाण सामइयं ।
भासा धम्मो एए सूरिगुणा हुँति छत्तीसं ॥३२॥(१४६) (छाया- विकथाः कषायाः सञ्जाः पिण्ड उपसर्गा ध्यानं सामायिकम् ।
भाषा धर्म एते सूरिगुणा भवन्ति षट्त्रिंशत् ॥३२॥) वृत्तिः - विकथा - स्त्रीभक्तदेशराजकथाख्याः ॥४॥ कषायाः क्रोधाद्याः ॥४॥ सञ्ज्ञाः - आहारभयमैथुनपरिग्रहसञ्ज्ञाख्याः ॥४॥ पिण्ड:-आहारोऽशनपानखादिमस्वादिमरूपः ॥४॥ उपसर्गाः - दैवमानुषतैरश्चात्मसंवेदनीयरूपाः, ॥४॥ आत्मसंवेदनीयाः शिरोंऽह्रिस्खलनादिभिः, ध्यानम् - आर्त्तरौद्रधर्मशुक्लध्यानाख्यम् ॥४॥ सामायिकम् - सम्यक्त्वश्रुतदेशविरतिसर्वविरत्याख्यम् ॥४॥ भाषा - सत्याऽसत्यामिश्राऽसत्यामृषास्वरूपा । तत्र सत्याऽस्त्यात्मेत्यादि ॥१॥ असत्या नास्त्यात्मेत्यादि ॥२॥ मिश्रा पुनरुभयरूपा यथाऽविदित्वाऽप्यस्मिन्नगरे दश दारका जाता मृता वेति ब्रूते ॥३॥ असत्यामृषाऽऽमन्त्रण्यादिका हे देवदत्त ! इत्यादि ॥४॥ धर्मो - दानशीलतपोभावनाभेदः ॥४॥
एते विकथादयो नव, उक्तनीत्या चतुर्गुणा भवन्ति सूरिगुणाः षट्विशदिति भावः । इह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वं ज्ञेयम् ॥३२॥ ॥१४६॥
तथा -
पंचमहव्वयजुत्तो पंचविहायारपालणुज्जुत्तो ।
पंचसमिओ तिगुत्तो छत्तीस गुणो गुरू होइ ॥३३॥ (१४७) (छाया- पञ्चमहाव्रतयुक्तः पञ्चविधाचारपालनयुक्तः ।
पञ्चसमितः त्रिगुप्तः षट्त्रिंशद्गुणो गुरुर्भवति ॥३३॥) वृत्तिः - स्पष्टा । नवरम्, पञ्चमहाव्रतादीनामष्टादशानामपि स्वयंकरणाऽन्यकारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ॥३३॥ ॥१४७॥ सम्प्रत्यनुयोगप्रवर्तनमाश्रित्य गुरोर्गुणषट्विशिकां गाथाचतुष्टयेनाहुः
देसकुलजाइरूवी संघयणी धीजुओ अणासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥३४॥(१४८)