SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १०७४ ग्रन्थान्तरगतगुरुगुणषझिशिकाः करोतीति = अपव्रीडकः, स ह्यालोचकस्याऽत्यन्तमुपकारको भवति ॥४॥ पदत्रयस्य कर्मधारयः । आलोचितस्य प्रायश्चित्तदानेन प्रकर्षण शुद्धिं कारयतीत्येवंशील इत्येतदर्थस्य सामायिकस्य कुर्वधातोर्दर्शनात् प्रकुर्वी ॥५॥ 'निज्जवत्ति प्राकृतत्वान्निर्यापकोऽयं हि यथा निर्वहति तथा प्रायश्चित्तं कारयति ॥६॥ अपायान् दुर्लभबोधिकत्वादीन् सातिचाराणां दर्शयतीत्यपायदर्शी ॥७॥ न परिश्रवत्यालोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी ॥८॥ तदन्यो ह्यालोचकानां लाघवकारी बोद्धव्यः । प्रायश्चित्तं दशधा यदाह - आलोयणपडिक्कमणे मीसविवेगे तहा वि उस्सग्गे । तवछेयमूलअणवट्ठयाय पारंचिए चेव ॥१॥ [पञ्चाशक १६/२, गाथा० २, आव०नि० १४१८] (छाया- आलोचनं प्रतिक्रमणं मिश्रं विवेकस्तथापि उत्सर्गः । तपश्छेदो मूलं अनवस्थाप्यता पाराञ्चिक एव ॥१॥) एते मिलिताः सूरिगुणाः षट्त्रिंशद् भवन्ति ॥३०॥ ॥१४४॥ तथा - आयाराई अट्ठ उ तह चेव य दसविहो य ठिकप्पो। बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं ॥३१॥ (१४५) (छाया- आचारादयोऽष्टौ तु तथैव च दशविधश्च स्थितकल्पः । द्वादशविधं तपः षडावश्यकानि सूरिगुणा भवन्ति षट्त्रिंशत् ॥३१॥) वृत्तिः - आचारादयः आचारसम्पदाद्या अष्टौ प्रागुक्तरूपा दशविधश्च स्थितिकल्पः, स चैवम् 'आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥१॥' (छाया- आचेलक्य १ औद्देशिक २ शय्यातर ३ राजपिण्ड ४ कृतिकर्मणि ५ । व्रत ६ ज्येष्ठ ७ प्रतिक्रमणे ८ मासः ९ पर्युषणाकल्पः १० ॥१॥) द्वादशविधं तपः ॥१२॥ षडावश्यकानि सामायिकादीनि ॥६॥ एतेऽपि मेलिताः षट्त्रिंशत् सूरिगुणाः स्युः ॥३१॥ ॥१४५॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy