________________
ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः
१०७३
३६ इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाच्चामीषां गुणानामपरैरपि गुणैरौदार्यस्थैर्यादिभिः शशधरकरनिकरकमनीयैरलङ्कृतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह "गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ' 'ति, यद्वा गुणा- मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः युक्तः - समीचीनः प्रवचनस्य द्वादशाङ्गस्य सारं अर्थं कथयितुं यदुक्तं
"गुणसुट्ठियस्स वयणं घयपरिसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जड़ पईवो ॥१॥"
(छाया - गुणसुस्थितस्य वचनं घृतपरिषिक्त इव पावको भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥१॥ इति गाथाचतुष्टयार्थः ॥५४९|| ||६४||' सम्यक्त्वप्रकरणतद्वृत्त्योः षट्त्रिंशद्गुरुगुणा इत्थं निरूपिताः 'वयछक्काई अट्ठारसेव आयारवाइ अट्ठेव ।
पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं ॥ ३० ॥ (१४४) (छाया - व्रतषट्कादयो अष्टादशैव आचारवत्त्वादयोऽष्टावेव । प्रायश्चित्तं दशधा सूरिगुणा भवन्ति षट्त्रिंशत् ॥३०॥
वृत्तिः - व्रतषट्कादयोऽष्टादश प्रागुक्ताः, एषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक् प्रायश्चित्तज्ञानात् । भावप्रत्ययस्य लुप्तत्वादाऽऽचारवत्त्वादयोऽष्टावेव, ते चा
'आयारव १ मवहारव २ ववहारु ३ व्वीलए ४ पकुव्वी य ५ । निज्जव ६ अवायदंसी ७ अपरिस्सावी य बोधव्वे ८ ॥१॥ '
—
(छाया - आचारवान् १ अवधारवान् २ व्यवहारः ३ अपव्रीडकः ४ प्रकुर्वी च ५ । निर्यापको ६ अपायदर्शी ७ अपरिश्रावी ८ च बोद्धव्यः ॥१॥)
-
=
अस्याश्चार्थः आचारवान् ज्ञानासेवाभ्यां पञ्चप्रकाराचारयुक्तोऽयं हि गुणवत्त्वेन श्रद्धेयवाक्यो भवति ॥ १॥ अवधारः आलोचकोक्तापराधानामवधारणम्, तद्वान् । स हि सर्वाऽपराधेषु यथावच्छुद्धिदानसमर्थो भवति ॥२॥ 'ववहार'त्ति मतुप्लोपाद् व्यवहारवान् आगमश्रुताऽऽज्ञाधारणाजीतलक्षणपञ्चप्रकारव्यवहाराऽन्यतरयुक्तः, सोऽपि यथावच्छुद्धिकरणसमर्थो भवति ॥३॥ लज्जादिनाऽतिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति, विगतलज्जं
=