________________
१०७२
ग्रन्थान्तरगतगुरुगुणषत्रिशिकाः सामर्थ्यरूपेण युतो व्याख्यायां न श्राम्यति ५ धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६ अनाशंसी-श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी ७ अविकत्थनोनातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्धे पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः ९ अमायी-शाठ्यरहितः ९ स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति १० गृहीतवाक्यःउपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११ ॥१॥
जितपर्षत् न महत्यामपि पर्षदि क्षोभमुपयाति १२ जितनिद्रः-अल्पनिद्रः, स हि रात्रौ सूत्रमर्थं वा परिभावयन् न निद्रया बाध्यते १३ मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः १४ देशं कालं च भावं च जानातीति देशकालभावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति १५-१६-१७ आसन्नातत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविर्भूता प्रतिभा-परतीर्थिकादीनामुत्तरप्रदानशक्तिर्यस्य स आसन्नलब्धप्रतिभः १८ नानाविधानां देशानां भाषां जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति, तत्तद्देशजांश्च जनान् तत्तद्भाषया धर्ममार्गेऽवतारयति १९ ॥२॥
पञ्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् युक्तः-उद्युक्तः स्वयमाचारेष्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् २४ सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः द्वितीयस्यार्थो न सूत्रं तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणं, ततः सूत्रार्थतदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः २५ आहरणं-दृष्टान्तः हेतुर्द्विविधः-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनयः-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, 'कारण 'त्ति पाठे तु कारणं-निमित्तं, नयानैगमादयः एतेषु निपुणः आहरणहेतूपनयनयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं २६ क्वचिद्धेतूपन्यासं करोति २७ उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति २८ नयनिपुणतया स सम्यगधिकृतनयवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविक्त्येन नयानभिधत्ते २९ ग्राहणाकुशलः-प्रतिपादनशक्तियुक्तः ३० ॥३॥
स्वसमयं ३१ परसमयं ३२ च वेत्तीति स्वसमयपरसमयवित्, स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति, गम्भीर:-अतुच्छस्वभावः ३३ दीप्तिमान्-परवादिनामनुद्धर्षणीयः ३४ शिवः-अकोपनो यदिवा यत्र तत्र वा विहरन् कल्याणकरः ३५ सोमः-शान्तदृष्टिः