________________
ग्रन्थान्तरगतगुरुगुणषट्विशिकाः
१०७१ लक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति ।
इह चैवमन्या अपि षट्त्रिशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते, केवलं किञ्चित्सोपयोगत्वात् सुप्रतीतत्वाच्च -
'देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी ।
अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिदो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्नू ॥२॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउउवनयनयनिउणो गाहणाकुसलो ॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४॥' (छाया- देशकुलजातिरूपी संहननी धृतियुतो अनाशंसी ।
अविकत्थनो अमायी स्थिरपरिपाटिः गृहीतवाक्यः ॥३४॥ जितपर्षद् जितनिद्रो मध्यस्थो देशकालभावज्ञः । आसन्नलब्धप्रतिभो नानाविधदेशभाषाज्ञः ॥३५॥ पञ्चविधे आचारे युक्तः सूत्रार्थतदुभयविधिज्ञः । उदाहरणहेतुकारणनयनिपुणो ग्राहणाकुशलः ॥३६॥ स्वसमयपरसमयविद् गम्भीरो दीप्तिमान् शिवः सोमः ।
गुणशतकलितो युक्तः प्रवचनसारं परिकथयितुम् ॥३७॥) इति गाथाचतुष्टयभणिताः सूरिगुणाः षट्त्रिंशद्दय॑न्ते -
तत्र युतशब्दः प्रत्येकमभिसम्बध्यते, देशयुतः कुलयुत इत्यादि, तत्र यो मध्यदेशे जातो यो वाऽर्धषड्विशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितं जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानं १ कुलं-पैतृकं तथा च लोकव्यवहारःईक्ष्वाकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवति २ जाति:-मातृकी तया युतो विनयादिगुणवान् भवति ३ रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, 'यत्राकृतिस्तत्र गुणा वसन्ती'तिप्रवादात्, कुरूपस्य अनादेयत्वादिप्रसङ्गाच्च ४ संहननेन विशिष्टशारीर