SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १०७० ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः तृतीयषट्त्रिशिकायां प्रपञ्चितः । 'त्रिगुप्तः' इति गुणः षष्ठषट्विशिकायां अष्टविधचारित्राचारवर्णने निदर्शितः । इत्थं पूर्वोक्ता एव गुणा अत्र भङ्ग्यन्तरेण प्रतिपादिताः । प्रवचनसारोद्धारतद्वृत्त्योश्च षट्त्रिंशद्गुरुगुणा एवं प्रदर्शिताः - 'सम्पत्तनाणचरणा पत्तेयं अट्ठअट्ठभेइल्ला । बारसभेओ य तवो सूरिगुणा हुंति छत्तीसं ॥५४८॥ आयाराई अट्ठ उ तह चेव य दसविहो य ठियकप्पो । बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं ॥५४९॥ (छाया- सम्यक्त्वज्ञानचरणानि प्रत्येकं अष्टाष्टभेदवन्ति । द्वादशभेदं च तपः सूरिगुणा भवन्ति षट्त्रिंशत् ॥५४८॥ आचारादिः अष्टौ तु तथा चैव च दशविधश्च स्थितकल्पः । द्वादशविधं तपः षडावश्यकानि सूरिगुणा भवन्ति षट्त्रिंशत् ॥५४९॥) वृत्तिः - अथवा इत्थं षट्त्रिंशद्गुणा गुरोर्भवन्ति, तत्राह – 'सम्मत्ते'त्यादि, सम्यक्त्वस्य दर्शनाचारस्य निःशङ्कितादयः ज्ञानस्य-ज्ञानाचारस्य कालविनयादयः चरणस्य-चारित्राचारस्य ईर्यासमित्यादयः प्रत्येकमष्टावष्टौ भेदा मिलिताश्चतुर्विंशतिः, तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च षट्त्रिंशद्भवन्ति ॥५४८॥ अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह - 'आयाराई'त्यादि, आचारा:-श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसम्पदः, तथा 'आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जे? ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो १० ॥१॥' (छाया- आचेलक्य १ औद्देशिक २ शय्यातर ३ राजपिण्ड ४ कृतिकर्मणि ५ । व्रत ६ ज्येष्ठ ७ प्रतिक्रमणे ८ मासः ९ पर्युषणाकल्पः १० ॥१॥) इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपं, तथा षडावश्यकानि-सामायिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यान
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy