________________
ग्रन्थान्तरगतगुरुगुणषट्विशिकाः
१०६९
प्रेमीया वृत्तिः - ग्रन्थान्तरेष्वन्या अपि गुरुगुणषट्विंशिकाः प्रदर्शिताः । तथाहि - गुरुस्थापनासूत्रापरनामपंचिदियसूत्रे उक्तम् -
'पंचिंदियसंवरणो, तह नवविहबंभचेरगुत्तो।। चउविहकसायमुक्को, इअ अट्ठारसगुणेहिं संजुत्तो ॥१॥ पंचमहव्वयजुत्तो, पंचविहायारपालणसमत्थो ।
पंचसमिओ तिगुत्तो, छत्तीसगुणो गुरू मज्झ ॥२॥' (छाया- पञ्चेन्द्रियसंवरणः, तथा नवविधब्रह्मचर्यगुप्तः ।
चतुर्विधकषायमुक्तः, इति अष्टादशगुणैः संयुक्तः ॥१॥ पञ्चमहाव्रतयुक्तः, पञ्चविधाचारपालनसमर्थः ।
पञ्चसमितस्त्रिगुप्तः, षट्त्रिंशद्गुणो गुरुर्मम ॥२॥) अनयोर्गाथयोर्व्याख्या - गुरुः पञ्चेन्द्रियाणि संवृणोति । स नवविधाभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तो भवति । स चतुर्विधैः कषायैर्मुक्तो भवति । एवं सोऽष्टादशगुणैः संयुक्तो भवति । स पञ्चभिर्महाव्रतैर्युक्तो भवति । स पञ्चविधानामाचाराणां पालने समर्थो भवति । स पञ्चभिः समितिभिः समितो भवति । स त्रिभिर्गुप्तिभिर्गुप्तो भवति । इत्थमन्यैरप्यष्टादशभिर्गुणैः स युक्तो भवति । एवं मम गुरुः षट्त्रिंशद्गुणसमन्वितो भवति । ___ एतेषां गुणानां वर्णनं पूर्वं कृतमेव । 'पञ्चेन्द्रियसंवरणः' इति गुणः चतुर्थषट्त्रिशिकायां प्रतिपादितः । 'नवब्रह्मचर्यगुप्तः' इति गुणः नवमषट्विशिकायां निरूपितः । 'चतुर्विधकषायमुक्तः' इति गुण एकादशषट्त्रिशिकायां षोडशकषायत्यागीतिगुणवर्णने वर्णितः । 'पञ्चमहाव्रतयुक्तः' इति गुणः तृतीयषट्विशिकायां प्रदर्शितः । ‘पञ्चविधाचारपालनसमर्थ' इति गुणस्तृतीयषट्विशिकायामुक्तः । 'पञ्चसमितः' इति गुणस्यार्थः