________________
१०५७
चतुर्विधो विनयः
सम्यक्त्वप्रकरणवृत्तावप्युक्तम् - 'तथा विनयश्चतुर्भेदः स च -
आयारे सूयविणए विक्खिवणे चेव होइ बोद्धव्वे ।
दोसस्स य निग्घाए विणए चउहेस पडिवत्ती ॥१॥ (छाया- आचारे श्रुतविनयो विक्षेपणे चैव भवति बोद्धव्यः ।
दोषस्य च निर्घाते विनये चतुर्धा एषा प्रतिपत्तिः ॥१॥) वृत्तिः - एतद्गाथातोऽवसेयः तत्राऽऽचारविनयः संयमतपोगणैकाकिविहारविषयचतुर्विधसामाचारीस्वरूपः । तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयं करणाऽन्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी ॥१॥ पाक्षिकाष्टमीचतुर्दश्यादिषु द्वादशविधतपसि स्वपरयोर्व्यापारणरूपा तप:सामाचारी ॥२॥ प्रत्युपेक्षणादिषु बालग्लानादिवैयावृत्यादिषु च विषीदद्गणप्रवर्तनस्वयमुद्यमनस्वभावा गणसामाचारी ॥३॥ एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणा एकाकिविहारसामाचारी ॥४॥
श्रुतविनयः सूत्रग्रहणाऽर्थश्रवण १ २ हित इनिःशेषवाचनात्मक:४ हितं योग्यताऽनुसारेण वाचयतो निःशेषमापरिसमाप्तेः ।
विक्षेपणाविनयश्च मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापना ॥१॥ सम्यग्दृष्टेस्त्वारम्भविक्षेपणाच्चारित्राध्यासनम् ॥२॥ च्युतधर्मस्य धर्मे स्थापनम् ॥३॥ प्रतिपन्नचारित्रस्य परस्याऽऽत्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः ॥४॥
तथा दोषनिर्घातविषयः विनयः क्रुद्धस्य क्रोधापनयनम् ॥१॥ दुष्टस्य विषयादिदोषवतो दोषाऽपनयनम् ॥२॥ काङ्क्षितस्य परसमयादिकाङ्क्षावतः काङ्क्षाच्छेदः ॥३।. स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूपः ॥४॥
एवमात्मानं परं च विनयतीति विनय इति दिग्मात्रमिदम्, विशेषस्तु व्यवहारभाष्यादेरवसेयः । इमे मिलिताः षट्विशद् गुणास्तस्य गणिनो भवन्तीति गाथार्थः ॥२९॥ ॥१४३॥'
गुरुरेतेषु चतुर्विधेषु विनयेषु प्रवर्तते । स चतुर्विधानपि विनयान् प्रयुङ्क्ते इत्यर्थः । इत्थं षट्त्रिंशद्गुणालङ्कृतो गुरुविराजताम् ॥३७॥
इति षट्त्रिंशत्तमी षट्विशिका समाप्ता ।