SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चतुर्विधो विनयः विनयः-पूर्वोक्तशब्दार्थः । स चतुर्विधः । तद्यथा २ १ आचारविनयः, श्रुतविनयः, ३ विक्षेपविनयः ४ दोषप्रतिघातविनयश्च । यदुक्तं प्रवचनसारोद्धारे तद्वृत्तौ च १०५६ - 'आयारे सुयविणए विक्खिवणे चेव होइ बोद्धव्वा । दोसस्स परीघाए विणए चउहेस पडिवत्ती ॥५४७॥ (छाया - आचारे श्रुतविनयो विक्षेपणे चैव भवति बोद्धव्याः । दोषस्य परिघाते विनये चतुर्वैषा प्रतिपत्तिः ||५४७॥) वृत्तिः - इदानीं चतुर्विधं विनयमाह 'आये 'त्यादि, आचारविनयः श्रुतविनयो विक्षेपणविनयो दोषपरिघातविनयश्चेति विनयविषये एषा चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो-व्रतिनां समाचारः स एव विनीयते - अपनीयते कर्मानेनेति विनयः आचारविनयः, स चतुर्धा, यथा संयमसामाचारी तपः समाचारी गणसामाचारी एकाकिविहारसामाचारी च तत्र संयमं स्वयमाचरति परं च ग्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोपबृंहतीति संयमसामाचारी १, पाक्षिकादिषु तपः कर्म स्वयं करोति परं च कारयति भिक्षाचर्यां स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्ते इति तप:सामाचारी २, प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी ३, एकाकिविहारप्रतिमां स्वयं प्रतिपद्यते परं च ग्राहयतीति एकाकिविहारसामाचारी ४। श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति १ अर्थं व्याख्यानयति २ हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति ३, सूत्रमर्थं वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुञ्चतीति ४ । विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, स चतुर्धा, तत्र मिथ्यादृष्टि मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्गं ग्राहयतीत्येकः १, सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रव्राजयतीति द्वितीयः २, सम्यक्त्वाच्चारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः ३, स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीयपरिभोगादित्यागेन एषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः ४। दोषाः - क्रोधादयस्तेषां परिघातोनिर्घातना स एव विनयो दोषपरिघातविनयः, स चतुर्धा, क्रुद्धस्य देशनादिभिः क्रोधनिर्घातनमित्येकः १, कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः २, भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्तनमिति तृतीयः ३ स्वयं च क्रोधदोषकाङ्क्षारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः ४ । तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति ॥५४७॥' -
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy