________________
द्वात्रिंशद्विधा गणिसम्पदः
नवरं चतुर्गुणाश्चतुर्भिर्गुणिता भवन्ति द्वात्रिंशत् सूरिगुणाः ।
तत्राचारोऽनुष्ठानम्, स एव सम्पत् सा चतुर्द्धा । तद्यथा
संयमध्रुवयोगे युक्तता - चरणे नित्यं समाध्युपयुक्ततेत्यर्थः ॥१॥ असम्प्रग्रहः आत्मनो अनियतविहारः ॥३॥ वृद्धशीलता
जात्याद्युत्सेकरूपाऽऽग्रहवर्जनम् ॥२॥ अनियतवृत्तिः वर्मनसो निर्विकारता ॥४॥
=
=
-
=
एवं श्रुतसम्पच्चतुर्धा । बहुश्रुतता = युगप्रधानागमतेत्यर्थः ॥ १॥ स परिचितसूत्रता : उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता ॥२॥ विचित्रसूत्रता = स्वसमयादिभेदात् ॥३॥ घोषविशुद्धिकरणता = उदात्तादिविज्ञानात् ॥४॥
=
=
शरीरसम्पच्चतुर्धा । आरोहपरिणाहयुक्तता उचितदैर्घ्यादिविस्तरतेत्यर्थः ॥ १ ॥ अलज्जनीयाऽङ्गता ॥२॥ परिपूर्णेन्द्रियता अनुपहतचक्षुरादिकरणता ॥३॥ स्थिरसंहननता = तपःप्रभृतिषु शक्तियुक्तता ॥४॥
अनवत्रप्यता
१०५५
=
वचनसम्पच्चतुर्धा । आदेयवचनता ॥ १ ॥ मधुरवचनता ||२|| अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः ||३|| असन्दिग्धवचनता ॥४॥
वाचनासम्पच्चतुर्धा । विदित्वोद्देशनम् = परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः ॥१॥ विदित्वा समुद्देशनम् ॥२॥ परिनिर्वाप्यवाचना = पूर्वदत्ताऽऽलापकान् शिष्यमधिगमय्य पुनः सूत्रदानम् ||३|| अर्थनिर्यापणा = अर्थस्य पूर्वापरसाङ्गत्येन गमनिका ॥४॥
=
मतिसम्पच्चतुर्धा । अवग्रहे १ हा २ पाय ३ धारणा ४ भेदात् ।
प्रयोगमतिसम्पच्चतुर्धा । इह प्रयोगो वादमुद्रा । तत्रात्मपरिज्ञानम् = वादादिसामर्थ्यविषये ॥१॥ पुरुषपरिज्ञानम् = किमयं वादी साङ्ख्यो बौद्धो वा ? ॥२॥ क्षेत्रपरिज्ञानम् = किमिदं मायाबहुलमन्यथा वा ? साधुभावितमभावितं वा इति ? ॥ ३ ॥ वस्तुज्ञानम् किमिदं
राजाऽमात्य सभ्यादि भद्रकमभद्रकं वा ? ॥४॥
=
सङ्ग्रहः = स्वीकरणम्, तत्र परिज्ञा ज्ञानमष्टमी सम्पच्चतुर्धा । पीठफलकादिद्रव्यविषया ||१|| बालादियोग्यक्षेत्रविषया ॥२॥ यथासमयं स्वाध्यायभिक्षाविषया ॥३॥ यथोचितविनयादिविषया चेति ||४|| ||२९|| ॥१४३॥'
गुरुरेताभिर्द्वात्रिंशद्भिर्गणिसम्पद्भिर्नित्यं समृद्धो भवति ।