________________
१०५४
द्वात्रिंशद्विधा गणिसम्पदः साङ्ख्यो वैशेषिकोऽन्यो वा तथा प्रतिभादिमानितरो वेत्यादिपरिभावनं, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा तथा साधुभिर्भावितमभावितं वेत्यादिविमर्शनं, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा भद्रकमभद्रं वेत्यादिनिरूपणम् । तथा सङ्ग्रह:-स्वीकरणं तत्र परिज्ञानं नाम अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पच्चतुर्धा, तद्यथा - 'गणे'त्यादि तत्र गणस्य-गच्छस्य बालदुर्बलग्लानबहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्योपसङ्ग्रहसम्पत् प्रथमा १, तथा भद्रकादिपुरुषं प्रति तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया २, ग्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते, समये ग्राहितत्वात्, तथा च जीतकल्पे
'पीढफलगाइगहणे न उ मइलिती निसिज्जाइ । वासासु विसेसेणं अन्नकालं तु गम्मएऽन्नत्थ ॥१॥
पाणा सीयल कुंथाइया य तो गहण वासासु।' (छाया- पीठफलकादिग्रहणे नैव मलिन्यन्ते निषद्यादीनि ।
वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र ॥१॥
प्राणाः शीतलं कुन्थ्वादिकाश्च ततो ग्रहणं वर्षासु ।) तथा यथासमयमेव स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रव्राजकाध्यापकरत्नाधिकप्रभृतीनामुपधिवहनविश्रामणाभ्युत्थानदण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पच्चतुर्थी, इत्येवं चतुर्विधां सङ्ग्रहपरिज्ञासम्पदं जानीयात्, दर्शिता अष्टापि प्रत्येकं चतुर्विधा गणिसम्पदः ॥५४६॥' दर्शनशुद्धिप्रकरणापरनामसम्यक्त्वप्रकरणतद्वृत्त्योरप्युक्तम् -
'अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं ।
विणओ य चउब्भेओ छत्तीस गुणा इमे तस्स ॥२९॥ (१४३) (छाया- अष्टविधा गणिसम्पत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् ।
विनयश्च चतुर्भेदः षट्त्रिंशत् गुणा इमे तस्य ॥२९॥) (१४३) वृत्तिः - गणो गच्छोऽस्याऽस्तीति गणी = आचार्यस्तस्य सम्पत्समृद्धिः अष्टविधा - आचार १ श्रुत २ शरीर ३ वचन ४ वाचना ५ मति ६ प्रयोगमति ७ सङ्ग्रहपरिज्ञा ८ भेदात्,