________________
द्वात्रिंशद्विधा गणिसम्पदः
१०५३ अवग्रहः ईहा अवायः धारणा च, अवग्रहादीनां च स्वरूपं षोडशोत्तरद्विशततमद्वारे वक्ष्यते ॥५४५॥
[यत्तु पूर्वं श्रुतपरिकर्मितमतेर्व्यवहारकाले तु अश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितं, तच्चतुर्धा, तद्यथा - अवग्रहः ईहा अवायः धारणा चेति, पुनरवग्रहो द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यज्यते - प्रकटीक्रियते शब्दादिरर्थोऽनेनेति व्यञ्जनंउपकरणेन्द्रियस्य कदम्बपुष्पांद्याकृतेः श्रोत्रघ्राणरसनस्पर्शनलक्षणस्य शब्दगन्धरसस्पर्शपरिणतद्रव्याणां च यः परस्परं सम्बन्धः प्रथममुपश्लेषमात्रं, अपरं च-इन्द्रियेणाप्यर्थस्य व्यज्यमानत्वादिन्द्रियमपि व्यञ्जनमुच्यते, ततश्च व्यञ्जनेन-इन्द्रियलक्षणेन व्यञ्जनस्य-विषयसम्बन्धलक्षणस्यावग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपात् व्यञ्जनावग्रहः, किमपीदमिति अव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमात्रमित्यर्थः, अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्धा, नयनमनसोरप्राप्यकारित्वेन विषयसम्बन्धाभावाद्, अस्य चेन्द्रियविषययोः सम्बन्धग्राहकत्वादिति भावः, अर्थ्यत इत्यर्थः तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः, स च मनःसहितेन्द्रिय-पञ्चकजन्यत्वात् षोढा । अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेव न तु पुरुष इत्यादि वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनं ईहेतिकृत्वा -
'अरण्यमेतत् सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः ।
प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥१॥' इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखताऽऽलिङ्गितो ज्ञानविशेष ईहा इति हृदयं, साऽपि मनःसहितेन्द्रियपञ्चकजन्यत्वात् षोद्वैव । ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽवायः, अयमपि पूर्ववत् षोढा । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं धारणा, साऽपि पूर्ववत् षोदैव । तदेवमर्थावग्रहादीनां चतुर्णां प्रत्येकं षड्विधत्वाद्व्यञ्जनावग्रहभेदचतुष्टयेन सह श्रुतनिश्रितं मतिज्ञानमष्टाविंशतिविधम् ।]
तथा प्रयोगः-अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः-वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्धा, तद्यथा - 'सत्ति' इत्यादि, शक्ति पुरुषं क्षेत्रं वस्तु च ज्ञात्वा वादं प्रयुञ्जीत, तत्र शक्तेर्ज्ञानं वादादिव्यापारकाले किममुं वावदूकं वादिनं जेतुं मम शक्तिरस्ति न वेत्यात्मीयस्वरूपपर्यालोचनं, पुरुषज्ञानं किमयं प्रतिवादी पुरुषः सौगतः