________________
१०५२
द्वात्रिंशद्विधा गणिसम्पदः
तथा श्रुतसम्पच्चतुर्धा, यथा तत्र सूचनात्सूत्रमिति युगो - युगप्रधानागमः परिचितसूत्र:-क्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः उत्सर्गी - उत्सर्गापवादस्वसमयपरसमयादिवेदी उदात्त - घोषादिः-उदात्तानुदात्तादिस्वरविशुद्धिविधायी, अन्यत्र बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ चेति पठ्यते, अर्थस्तु स एव ॥ ५४३॥
-
शरीरसम्पदं चतुर्विधामाह - 'चउ' इत्यादि, तत्र चतुरस्रः - आरोहपरिणाहयुक्तो दैर्घ्य - विस्ताराभ्यां लक्षणप्रमाणसहिताभ्यां युक्त इति यावत् तथा अकुण्यदिः - सम्पूर्णपाण्यादिः तथा बधिरत्वादिवर्जितः-अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदभिन्ने तपसि शक्तः-समर्थः, अन्यत्र तु आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता ४ चेति पठ्यते, तत्रापि स एवार्थः, केवलमविद्यमानमवत्राप्यं-अवत्रपणं लज्जनं यस्य सोऽनवत्राप्यो यद्वा अवत्रापयितुं - लज्जयितुमर्हः शक्यो वा अवत्राप्योलज्जनीयो न तथाऽनवत्राप्यो ऽहीनसर्वाङ्गत्वेनालज्जाकर इत्यर्थः वचनसम्पच्चतुर्धा, तद्यथा 'वाई'त्यादि, वादी मधुरवचन: अनिश्रितवचनः स्फुटवचनश्चेत्येषा वचने वचनविषये सम्पत्, तत्र वदनं-वादः स प्रशस्तोऽतिशायी वा विद्यते यस्य स वादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुषं सुस्वरतागम्भीरतादिगुणोपेतमत एव श्रोतृजनमनः प्रीणकं वचनं यस्य स मधुरवचन:, तथा रागद्वेषादिभिरनिश्रितं - अकलुषं वचनं यस्य सोऽनिश्रितवचनः, स्फुटं सर्वजनसुबोधं वचनं यस्य स स्फुटवचनः, अन्यत्र तु आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ असन्दिग्धवचनता ४ चेति पठ्यते, अर्थः प्राग्वदेव ॥५४४॥
अथ वाचनासम्पच्चतुर्धा, तद्यथा - 'जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योग्यं सूत्रं तत्तस्यैवोद्दिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात्, तथा पूर्वप्रदत्तसूत्रालापकान् शिष्यस्य सम्यक्परिणमय्य ततोऽपरापरालापकानां वाचनां पुनः पुनः प्रयच्छन् परिणतवाचन:, तथा वाचनायाः-व्याख्यानस्य निर्यापयिता- निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव ग्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुञ्चतीत्यर्थः, तथा निर्वाहणो - निर्वाहकोऽर्थस्येति शेष:, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थं निर्गमयतीति भावः, ग्रन्थान्तरे त्वेवं दृश्यते विदित्वोद्देशनं १ विदित्वा समुद्देशनं - परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना-पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४ ॥ अथ मतिसम्पच्चतुर्धा, तद्यथा - ' उग्गहे 'त्यादि,