________________
त्रयस्त्रिंशद्विधा आशातनाः
१०३५ ग्रेतनेऽष्टादशे 'खद्धाययण' लक्षणे दोषे 'खद्ध' शब्दो विद्यते स एवात्र विभज्य सप्तदशदोषरूपतया व्याख्यात इति न सङ्ग्रहकारस्य कश्चिद्दोषः, विचित्ररचनानि सूत्राणि भवन्तीति, अत एवाऽऽह विवरणगाथायां सूत्रकारः -
"संगहगाहाए जो न खद्धसद्दो निरूविओ वीसुं ।
तं खद्धाययणपए खद्धति विभज्ज जोएज्जा ॥१३८॥" (छाया- सङ्ग्रहगाथायां यो न खद्धशब्दो निरूपितो विष्वक् ।
तं खद्धाद्यदनपदे खद्धमिति विभज्य योजयेत् ॥१३८॥) 'वीसु'ति विष्वग् पृथगित्यर्थः, शेषं व्याख्यातमेव १७ ॥१३८॥
इदानीमष्टादशीमाशातनामाह - 'खद्धाइयण'त्ति खद्धाद्यदनं प्रचुरादिभक्षणमित्यर्थः, एतस्याश्च यदाशातनाविवरणं गाथाभिर्व्याख्यातं तद्दशाश्रुतस्कन्धसूत्राऽपेक्षया द्रष्टव्यम्, तथा च तत्रैवं सूत्रम् - "खद्धाइयण"त्ति सेहे असणं वा ४ रायणिएण सद्धि भुंजमाणे तत्थ सेहे खद्धं २ डायं २ ओसढं २ रसियं २ मणुन्नं २ मणामं २ निद्धं २ लुक्खं २ आहारित्ता भवइ आसायणा सेहस्स'त्ति (छाया- 'खद्धाइयण' इति शैक्षः अशनं वा ४ रात्निकेन साधू भुञ्जानः तत्र शैक्षः प्रचुर २ शाकं २ उच्छ्रितं २ रसितं २ मनोज्ञं २ मनामं २ स्निग्धं २ रूक्षं २ आहारयिता भवति आशातना शैक्षस्य ।) एतत्सूत्रानुसारेणेदं द्वारं स्वयमेव विवृणोति - 'खद्धाययणे'त्यादि खद्धाद्यदने इत्यत्र पदे खद्धशब्देन बहु भण्यते 'अयण'त्ति अदनमशनमित्यर्थः, ततः खलु बहु आदिर्यस्य तत् खद्धादि अदनं वड्डवड्डेहिं लंबणेहिं खादनमित्यर्थः, आदिशब्दात् डाकादिपरिग्रहः, अत एवाह - 'आइसद्दा दायं होइ पुणो पत्तसागंतं' वृन्ताकचिर्भटिकाचणकादयः सुसंस्कृताः पत्रशाकान्ता डाकशब्देन भण्यन्ते, तं गृहीत्वा गृहीत्वा 'वण्णाइजुयं उसढ'मित्यादि शुभवर्णगन्धादियुक्तम्- ऊसढम्-उच्छ्रितमित्यर्थः 'रसियं पुण दाडिमम्बगाईयं' रसितं पुनर्दाडिमाम्रफलादिकं केनापि प्रकारेणाचित्तीकृतमाकृष्याऽऽकृष्य भुङ्क्ते, 'मणइटुं तु मणुन्नं' मनस इष्ट-प्रियं मनोज्ञं तदपि तथैव, 'मन्नइ मणसा मणाम' ति मन्यते मनसा मनाममिति निरुक्तिवशाद्भव्यमभव्यं वा यन्मन्यते तत् खादतीत्यर्थः ॥१३९-१४०॥
'निद्धं नेहवगाढं'ति स्निग्धं स्नेहेन-घृतादिना अवगाढं-मिश्रितं तदपि तथैव भुङ्क्ते 'रुक्खं पुण नेहवज्जियं जाण'त्ति रूक्षं पुनः स्नेहवर्जितं जानीहि, तदपि तथैव भुङ्क्ते इत्याशातना गुरुं प्रति शिष्यस्येति, अन्यत्र पुनरियमेवं व्याख्याता - शिष्येण भिक्षामानीया