________________
१०३६
त्रयस्त्रिंशद्विधा आशातनाः ऽऽचार्याय यत्किञ्चिद्दत्त्वा स्वयं स्निग्धमधुरमनोज्ञानशाकादीनां वर्णगन्धरसस्पर्शवतां च द्रव्याणामुपभोग इति १८ । इदानीमेकोनविंशतितमीमाह - ‘एवं अप्पडिसुणणे 'त्ति सूरेः शब्दं कुर्वतोऽप्रतिश्रवणे आशातना, नन्वियं 'अप्पडिसुणणे'त्ति द्वारे पूर्वं व्याख्यातैव किमर्थं पुनर्भण्यते ? इत्यत्राह - 'नवरमिणं दिवसविसयंति इदमप्रतिश्रवणं दिवसे सामान्येनोक्तं, पाश्चात्यं तु विलसदन्धकारायां रात्रौ न कोऽपि जाग्रतं सुप्तं वा मां ज्ञास्यतीत्यप्रतिश्रवणमिति द्वयोरनयोर्भेदः १९ ॥१४॥
विंशतितमीमाह - ‘खद्धति बहु भणंति' इत्यादि, खरम्-अत्यर्थं कर्कशेन-परुषेण बृहता च स्वरेण खद्धं-बहु प्रचुरमित्यर्थः रत्नाधिकं भाषमाणे शिष्ये आशातना २०, 'तत्थ गए होइमा चऽन्न'त्ति शिष्यो रत्नाधिकेन व्याहृतो यत्रास्ते तत्रस्थ एवोल्लापं ददाति, न पुनः समीपमागत्योत्तरं ददातीति, इयं चान्याऽऽशातना शिष्यस्य ॥१४२॥ ___ अत एवाह - 'सेहो गुरुणा भणिओ तत्थ गओ सुणइ देइ उल्लावं' इति व्याख्यातार्थम् २१, ‘एवं किंति च भणइ'त्ति शिष्यः सूरिणा व्याहृतः किमित्येवं वक्ता, किं भणसीत्यर्थः, एवमाशातना शिष्यस्य, मस्तकेन वन्दे इति चेह वक्तव्यमिति २२ ॥१४३॥
"एवं तुमंति भणइ'त्ति शिष्यो रत्नाधिकं त्वमिति एकवचनान्तेन वक्ता भवति, 'कोऽसि तुम मज्झ चोयणाए उत्ति कस्त्वं मम प्रेरणायामित्यादीनि शिष्यस्याशातना, शिष्यैः श्रीभगवन्तः श्रीपूज्या यूयमित्यादिभिरेव वचनैर्गुरवो भाषणीया इति २३, ‘एवं तज्जाएणं पडिभणणाऽऽसायणा सेहे'त्ति शिष्यो रत्नाधिकं तज्जातेन-तैरेव गुरूक्तवचनैः प्रतिभणिता भवति, कोऽर्थः ? सूरिणा शिष्य उक्तो - 'अज्जो किं न गिलाण'न्ति ग्लानस्य किमिति किञ्चिन्न करोषि ?, स ब्रूते-त्वं किमिति न करोषि ?, तथा सूरिर्वदति-त्वमालस्यवान्, स वदति-भवानेवालस्यवानित्यादिस्वरूपेण तज्जातेन गुरुं प्रति भणिते भवत्याशातना शिष्यस्येति २४ ॥१४४॥ _ 'नो सुमण'त्ति इत्यस्य व्याख्या - 'रायणिए य कहते कहं च एवं असुमण'त्ति एवं धर्मगुरौ कथां कथयति असुमनस्त्वे सति शिष्यस्याऽऽशातना, अहो एवमिदं शोभनं कथितं पूज्यैरपीति सुमना नोपबृंहयतीत्यर्थः २५ ॥१४५॥ ___एवं नो सरसि तुमं एसो अत्थो न होइ एवं'ति एवं - अनेनैव प्रकारेणान्याऽऽशातना भवति गुरोः कथां कथयतो न भवन्तः स्मरन्ति एषोऽर्थ एवं न भवतीति यदा शिष्यो भाषते २६, इदानीं 'कहं छित्त'त्ति तत्राह - ‘एवं कहमच्छिदिय सयमेव कहेउमारभइ' इति गुरौ