________________
१०३४
त्रयस्त्रिंशद्विधा आशातनाः अग्गपएसे' इत्यादिकाः 'करणेण दो चरिमा' इत्यन्ता अष्टादश व्याख्यायन्ते, तत्र गुरोः पुरतः - अग्रतः कारणमन्तरेण गन्ता - गमनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशातना मार्गदर्शनादिके तु कारणे न दोषः १, गुरोः पार्श्वाभ्यामपि गमने आशातना २, पृष्ठतोऽप्यासन्नगमने आशातना निःश्वासक्षुत्श्लेष्मपातादेर्दोषप्रसङ्गात्, ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यमिति ३, एवं पुरतः पार्श्वतः पृष्ठतश्च स्थाने - ऊर्ध्वरूपे शिष्यस्याऽऽशातनात्रयं ३, पुरतः पार्श्वतः पृष्ठतश्च निषीदने आशातनात्रयं ३, कारणे तु तथाविधेऽत्रापि न दोषः, एवं नव ९, अत्र च गन्ता आशातनेति तुल्याधिकरणत्वं न घटते तस्माल्लुप्तमत्वर्थीयमिदं पदं विधेयं ततो गन्ता आशातनावान् भवतीत्यर्थः एवमन्यत्रापि स्वबुद्ध्या अक्षरघटना विधेया सूचापरत्वात्सूत्रस्येति, 'आयमणे 'त्ति आचार्येण सहोच्चारभूमि गतस्याऽऽचार्यात्प्रथममेवाचमनं कुर्वन्नाशातनावान् शिष्यो भवतीति १० ॥ १३२ - १३३ ॥
"
'आलोयण 'त्ति उच्चारादिबहिर्देशादागतवति गुरौ शिष्यः पूर्वमेव गमनाऽऽगमनविषयामालोचनां करोति गुरुस्तु पश्चादिति शिष्य आशातनावान् भवतीति ११, 'अप्पड - सुणणे त्ति रत्नाधिकस्य रात्रौ व्याहरतः - कः सुप्तः ? को जागर्तीति ?, तत्र जाग्रदपि अप्रतिश्रोता भवतीत्याशातनावान् शिष्यो भवतीति १२ ॥१३४॥
'पुव्वालवणे य' त्ति गुरोरालपनीयस्य कस्यचिद्विनेयेन पूर्वमेवालपने आशातनावान् भवतीति १३ ॥१३५॥
'आलोए'त्ति भिक्षामशनपानखादिमस्वादिमरूपामानीय प्रथममेव कस्यापि शिष्यस्य पुरत आलोचयति पश्चाद्गुरोरिति शिष्यस्याशातना १४, 'तह उवदंस' त्ति तथा तेनैव प्रकारेणाऽऽशातनेत्यर्थः अशनादि ४ भिक्षामानीय प्रथमं कस्यचित् शैक्षस्योपदर्शयति पश्चाद्गुरोरिति शिष्यस्याशातना १५ ॥१३६॥
'निमंतण 'त्ति अशनादि ४ भिक्षामानीय गुरुमनापृच्छ्य पूर्वमेव शैक्षमुपनिमन्त्रयति पश्चात्सूरिमित्याशातनावान् शिष्यो भवतीति १६, 'खद्ध 'त्ति अशनादि ४ भिक्षामानीय सूरिभिः समं प्रतिगृह्य सूरिमनापृच्छ्य यस्य यस्य प्रतिभाति तस्य तस्य खद्धं खद्धं प्रचुरं प्रचुरं ददातीति शिष्ये आशातना, खद्धशब्देन सैद्धान्तिकेन प्रचुरमभिधीयते ॥१३७॥
'संगहगे 'त्यादि ननु सङ्ग्रहगाथायां 'खद्ध 'त्ति पृथक्पदं नोपात्तं तत्कथमयमनुपात्तो दोषो भवद्भिर्व्याख्यायते ?, अत्रोच्यते, यद्यप्यत्राऽऽहत्य खद्ध शब्दो द्वारगाथायां नोक्तः तथाप्य