________________
त्रयस्त्रिंशद्विधा आशातनाः
१०३३ सङ्ग्रहगाथायां यो न खद्धशब्दः निरूपितो विष्वक् । तं खद्धाद्यदनपदे खद्ध इति विभज्य योजयेत् ॥१३८॥ एवं खद्धादने खद्धं बहुकमिति अदनमशनमिति । आदिशब्दात् डाकं भवति पुनः पत्रशाकान्तम् ॥१३९॥ वर्णादियुतं ऊसढं रसितं पुनः दाडिमाम्रकादिकम् । मनइष्टं तु मनोज्ञं मन्यते मनसा मनामं तत् ॥१४०॥ स्निग्धं स्नेहावगाढं रूक्षं पुनः स्नेहवर्जितं जानीहि । एवं अप्रतिश्रवणे नवरमिदं दिवसविषये ॥१४१॥ खद्धमिति बहु भणन् खरकर्कशगुरुस्वरेण रत्नाधिकम् । आशातना तु शैक्षे तत्र गते भवति इमा चाऽन्या ॥१४२।। शैक्षो गुरुणा भणितस्तत्र गतः शृणोति ददाति उल्लापम् । एवं किमिति च भवति न मस्तकेन तु वन्दे ॥१४३॥ एवं त्वमिति भणति कोऽसि त्वं मम चोदनायां तु ? । एवं तज्जातेन प्रतिभणनाऽऽशातना शैक्षे ॥१४४॥ आर्य ! किं न ग्लानं प्रतिजागर्षि प्रतिभणति किं न त्वम् ? । रालिके च कथयति कथां च एवं असुमनस्त्वे ॥१४५॥ एवं न स्मरसि त्वं एषः अर्थः न भवति एवमिति । एवं कथां छित्त्वा स्वयमेव कथयितुमारभते ॥१४६॥ तथा पर्षदमेव भिनत्ति तथा किञ्चित् भणति यथा न सा मिलति । तस्यां अनुत्थितायां गुरुभणितं सविस्तारं भणति ॥१४७॥ शय्यां संस्तारकं वा गुरोः सङ्घट्टयित्वा पादैः । क्षाम्यति न यः शैक्षः एषा आशातना तस्य ॥१४८॥ गुरुशय्यासंस्तारकस्थाननिषीदनत्वग्वर्त्तनेऽथापरा ।
गुरूच्चसमासनस्थानादिकरणेन द्वे चरमे ॥१४९॥) वृत्तिः - 'पुरओ' इत्यादिगाथात्रयं १२९-१३०-१३१ एतद्गाथाव्याख्यागाथाश्च 'पुरओ