________________
१०३०
त्रयस्त्रिंशद्विधा आशातनाः अनुत्थितायामिति निविष्टायामेव अव्यवच्छिन्नायामिति यावदेकोऽपि तिष्ठति, अव्याकृतायामिति अविसंसृतायामिति भणितं भवति, द्विरपि त्रिरपि - द्विकृत्वस्त्रिकृत्वः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थस्तमेवाधिकारं विकल्पयति, अयमपि प्रकारः अयमपि प्रकारः तस्यैवैकस्य सूत्रस्य २९, 'संस्तारपादघट्टनमिति शय्यासंस्तारकौ पादेन सङ्घट्टयित्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षस्य, इह च शय्या - सर्वाङ्गिकी संस्तारक:अर्धतृतीयहस्तः यत्र वा स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकः तं पादेन संघट्टयति, नानुज्ञापयति- न क्षमयति, भणितं च 'कायेन सङ्घट्टयित्वे' - त्यादि ३०, 'स्थाते 'ति शैक्षो रालिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्य ३१, 'उच्च' इति शैक्षो रानिकासनात् उच्च आसने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य ३२, 'समासने चापी'ति शैक्षो रानिकासनस्य सम आसने स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवस्याशातना शैक्षस्येति ३३ | )
प्रवचनसारोद्धारे तद्वृत्तौ चासां स्वरूपमेवं प्रदर्शितम् -
'अथ 'आसायण तेत्तीस 'त्ति द्वारं, तत्राह
पुरओ पक्खासन्ने गंताचिट्ठणनिसीयणायमणे । आलोयणऽपडिसुणणे पुव्वालवणे य आलोए ॥१२९ ॥ तह उवदंस निमंतण खद्धा अयणे तहा अपडिसुणणे । खद्धत्तिय तत्थगए कि तुम तज्जाय नोसुमणे ॥१३०॥ नो सरसि कहं छित्ता परिसं भित्ता अणुट्टियाइ कहे । संथारपायघट्टण चिट्ठोच्चसमासणे यावि ॥ १३१ ॥ पुरओ अग्गपएसे पक्खे पासंमि पच्छ आसन्ने । गमण तिन्नि ठाणेण तिन्नि तिण्णि य निसीयणए ॥१३२॥
विणयब्धंसाइगदूसणाए आसायणाओ नव एया । सेहस्स वियारगमे रायणियपुव्वमायमणे ॥१३३॥
पुव्वं गमणागमणालोए सेहस्स आगयस्स तओ । ओ सुत्तेसु जागरस्स गुरुभणियपडिसुणणा ॥१३४॥