________________
त्रयस्त्रिंशद्विधा आशातनाः
१०२९ आशातना शैक्षस्य १३, 'आलोचयती'ति असणं वा ४ प्रतिगृह्य तत् पूर्वमेव शैक्षतरस्य आलोचयति पश्चाद्रानिकस्याशातया शैक्षस्य १४, 'उपदर्शन मिति शैक्षोऽशनं वा ४ प्रतिगृह्य तद् पूर्वमेवावमरात्निकायोपदर्शयति पश्चाद्रालिकायाशातना शैक्षस्य १५, 'निमन्त्रण मिति शैक्षोऽशनं वा ४ प्रतिगृह्य पूर्वमेवावमरात्निकं निमन्त्रयते पश्चाद् रात्निकं आशातना शैक्षस्य १६ 'खद्ध'मिति शैक्षो रात्निकेन सार्धमशनं वा ४ प्रतिगृह्य तत् रात्निकमनापृच्छ्य यो य इच्छति तं तं प्रचुरं प्रचुरं ददाति आशातना शैक्षस्य १७, 'अदन'मिति शैक्षोऽशनं वा ४ प्रतिगृह्य रात्निकेन सार्धं भुञ्जानस्तत्र शैक्षः प्रचुर २ शाकं २ संस्कृतं रस्यं मनोज्ञं मनआपं स्निग्धं रूक्षं आहारयिता भवति आशातना शैक्षस्य, इह च 'खद्धं ति बृहता बृहता लम्बनेन 'ऊसढ'मिति वर्णगन्धरसस्पर्शोपेतं 'रसित'मिति रसयुक्तं दाडिमाम्रादि 'मनोज्ञ'मिति मनस इष्टं 'मनोऽम'मिति मनसा मन्यं मनामं, 'स्निग्ध'मिति स्नेहावगाढं 'रूक्ष'मिति स्नेहवर्जितं, १८ 'अप्रतिश्रवण'मिति शैक्षकः रात्निके व्याहरति अप्रतिश्रोता भवति आशातना शैक्षकस्य, सामान्येन दिवसेऽप्रतिश्रोता भवति १९, 'खद्धेति चेति शैक्षो रात्निकं खद्धं खद्धं वक्ता भवति आशातना शैक्षस्य, इदं च खद्धं-बृहच्छब्देन खरकर्कशनिष्ठुरं भणति २०, 'तत्र गते' इति शैक्षो रात्निकेन व्याहृतो यत्र गतः शृणोति तत्र गत एवोल्लापं ददाति आशातना शैक्षस्य २१, 'कि'मितीति शैक्षो रात्निकेनाहूतः किमिति वक्ता भवत्याशातना शैक्षस्य, किमिति किं भणसीति भणति, मस्तकेन वन्द इति भणितव्यम् २२, 'त्व'मिति शैक्षो रात्निकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता २३, 'तज्जात' इति शैक्षो रात्निकं तज्जातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तज्जातेनेति कथमार्य ! ग्लानस्य न करोषि ?, भणति-त्वं कथं न करोषि ?, आचार्यो भणति-त्वमलसः, स भणति-त्वमेवालस इत्यादि २४, 'न सुमना' इति शैक्षो रात्लिके कथां कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसङ्कल्पस्तिष्ठति नानुबृहति कथां अहो शोभनं कथितमिति २५, 'न स्मरसी'ति शैक्षो रात्निके कथां कथयति न स्मरसीति वक्ता भवति आशाताना शैक्षस्य, इह न स्मरसीति न स्मरसि त्वमेनमर्थं नैष एवं भवति २६, 'कथां छेत्ते'ति रात्लिके कथां कथयति तां कथां छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि २७, पर्षदो भेत्तेति रात्निके कथां कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च 'पर्षदो भेत्ते'ति एवं भणति-भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनत्ति वा पर्षदं २८, अनुत्थितायां कथयति रात्निके कथां कथयति तस्यां पर्षदि अनुत्थितायामव्युच्छिन्नायामव्याकृतायां (असंविप्रकीर्णायां) द्विरपि त्रिरपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि