________________
पञ्चत्रिंशत्तमी षट्विशिका अथ पञ्चत्रिंशत्तमी षट्त्रिंशिकामाह - मूलम् - तित्तीसविहासायण-वज्जणजुग्गो य वीरिआयारं ।
तिविहं अणिगृहंतो, छत्तीसगुणो गुरू जयउ ॥३६॥ छाया - त्रयस्त्रिंशद्विधाशातना-वर्जनयोग्यश्च वीर्याचारम् ।
त्रिविधमनिगूहन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३६॥ प्रेमीया वृत्तिः - त्रयस्त्रिंशद्विधाशातनावर्जनयोग्यः - त्रयस्त्रिंशद्विधानामाशातनानां वर्जनमिति त्रयस्त्रिंशद्विधाशातनावर्जनम्, तस्य योग्य इति त्रयस्त्रिंशद्विधाशातनावर्जनयोग्यः, त्रिविधं - त्रिभेदं, चः समुच्चये, वीर्याचारं - पञ्चमाचारं, अनिगृहन् - अनिढुवन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समुदायार्थः । ___ अवयवार्थस्त्वयम् - आयः - सम्यग्दर्शनाद्यवाप्तिः, तस्य शातना - नाशनमित्याशातना । अत्र गुरुसम्बन्धिन्य आशातना ज्ञेयाः । तास्त्रयस्त्रिंशद्विधाः । तद्यथा - १ पुरतो गमनं, २ पार्श्वतो गमनं, ३ पृष्ठतो गमनं, ४ पुरतः स्थानं, ५ पार्श्वतः स्थानं, ६ पृष्ठतः स्थानं, ७ पुरतो निषीदनं, ८ पार्श्वतो निषीदनं, ९ पृष्ठतो निषीदनं, १० आचमनं, ११ आलोचना, १२ अप्रतिश्रवणं, १३ पूर्वालापनं, १४ भिक्षालोचना, १५ उपदर्शनं, १६ निमन्त्रणं, १७ खद्धदानं, १८ खद्धादनं, १९ दिवसविषयमप्रतिश्रवणं, २० खरस्वरः, २१ तत्रगतः, २२ किमिति भणति, २३ त्वमिति भणति, २४ तज्जातेन भणति, २५ असुमनाः, २६ न स्मरसि, २७ कथाच्छेदः, २८ पर्षद्भेदः, २९ अनुत्थितकथा, ३० संस्तारकपादघट्टनं, ३१ संस्तारकावस्थानं, ३२ उच्चासनं, ३३ समासनञ्च । उक्तञ्च गुरुवन्दनभाष्ये -